________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टम: प्रश्न:
संविदा देयम् । वित्तशाठ्यं न कारयेत् । तस्माद्विषयप्रवृत्त्या सुखमेकमनुभूयते । धर्मार्थकामहेतुपूर्वकम् । मध्यमस्सर्वपुरुषार्थः। प्रकाशयेत्पण्डितानाम् । न पीडयेनातिलालयेदिन्द्रियाणि । एवं सततम् । न हिंस्यात्सर्वभूतानि । प्रातरविकारं निरीक्षयेत् । विसृष्टविण्मूत्राहिमलाशयः । सर्वात्मानं स्वशरीरवत्पश्यति । देवब्राह्मणगोऽर्थिनस्सुपूजयेत् । विधिनियमिताचारवान् भुङ्क्ते । आयुरारोग्यमैश्वर्य यशोलोकांश्च शाश्वतान् । अर्कानिलानलनक्षत्रादयः कालचक्रसिद्धाः प्रचरन्ति । विविधसुखं कालचक्रं प्रयच्छति । स कालस्सर्व सृजति । स सर्वजगत्पोषकः । स एव नाशहेतुकः । नित्य नियन्ता स एकः । स एवंवित् । जगदन्नमयं करोति । कालकर्मवशात्तत्तत्फलं प्रददाति ।
इत्यायुर्वेदस्य अष्टमः प्रश्नः समाप्तः.
१०१
१०४
.
नित्यो-A.
AYURVEDA
35
.
For Private And Personal Use Only