________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
270
आयुर्वेदसूत्रे
दोषाः कालमनुसरन्ति । कालानुकूलभेषजं कुर्यात् । तिक्तक्षीरप्रदाशाखादिभिर्दन्तस्यान्तः प्रक्षालनम् । लोचनावलोचनम् आपादमस्तकं तैलाभिषेचनम् उद्वर्तन कफघ्नम्। यथासुखोष्णाद्भिः प्रक्षालना । ततः सङ्कल्पपूर्व स्नानमाचरेत् । दशविधस्नानमशक्तेषु । अशुद्ध सत्यायुविनश्यति। शुद्ध कर्माधिकारः । आयुष्कामयमानं भेषजम् । शतायुः पुरुषश्शतेन्द्रिय आयुध्येवेन्द्रिये प्रतितिष्ठति । पराशयमालश्यान्तहितं कुर्वन् प्रवर्तेत । यान्यनवद्यानि कर्माणि तानि सेवितव्यानि । यान्यनिन्दितानि तानि त्वयोपास्यानि । नो इतराणि । यान्यस्माकं सुचरितानि । ये के चास्मच्छ्रेयांसो ब्राह्मणाः तेषां त्वयाऽऽसनेन
प्रश्वसितव्यम् । श्रद्धया देयम् । अश्रद्धया देयम् । श्रिया देयम् | हिया देयम् । मिया देयम् ।
For Private And Personal Use Only