________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
258
आयुर्वेदसत्रे
सोऽविपक्वो भवति। तस्माद्विषमानलो भवति। यद्रसाजातोऽनलस्तद्रसं पचति । रसानुसरो दोषः। दोषानुसरो रोगः। रोगानुसरो धातुः। धातुप्रचरा दोषाः। आद्यास्त्रयः। पवनप्रकोपं हरन् तद्सानुसरो धातुपोषकः । आद्यास्त्रयो विरसैकताभावात् तदनुगतरोगाः । पवनप्रकोपजाताश्चासाभ्याः । आवाजातरोगस्सद्यो मारकः । द्वितीयाजातश्चतुरहः। तृतीयष्षड्रात्रम् । तत्रैकरसो विरसोऽष्टमे प्राणघातकः । आद्यरसाद्विरसो दशमेऽहनि । अन्त्यरसाद्विरसश्चतुर्दशाहनि । अन्त्यद्विरसरस एकरसो विरसोऽष्टादशेऽहनि। तिक्तास्त्रयो मेदोमांसासृक्प्रचारं प्रवर्धयन्ति । विरसा रसविषमप्रदा भवन्ति । तिक्तात्रय एकदा रसा विरसा भूत्वैकैकमनेकगुणरसा
प्रदर्शयन् नान्यरसोत्पादकोऽनलो भवेत् त्रिस्सप्ता
हान्निवर्तते। 1 रोग:---A. तत्रैकरसो द्विरसो-साद्विरस:-A&B. ३ मनेकरसगुणान्प्रद-B.
For Private And Personal Use Only