SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 248 आयुर्वेदसूत्रे तल्लक्षणलक्षितकफप्रकोपस्य पृथिवीद्रव्यसंयोगजन्य त्वात् । तति 'रुद्धद्रव्यादनमपि कफप्रकोपहेतुकम् । कटुरसद्रव्यादनेनैव कफ प्रकोपनिवृत्तिरित्याशयं मनसि निधायाह-ऊषणेति । ऊषणरसं विपाचयन् मांसधातुस्थाने स्वतेजसा भाति ॥४८॥ ___सर्वत्र सत्त्वात् पवनप्रकोपकारककफप्रकोपनिवर्तकत्वस्य बहुशो दृष्टत्वात् पवनप्रकोपकारकमिति वक्तुमशक्यत्वाच । तथा हि- सरन्ध्रकाभ्यन्तरधरसिरामार्गगतपवनप्रकोपस्य हतः (?) कफप्रकोपो भवति । कटुरसाधिकद्रव्ये पकाशयगते सति तत्कफप्रकोपं हरतीति वक्तव्यम् ॥ आचार्यस्सर्वचेष्टासु लोक एव हि धीमताम् । एष शिरस्तोदो यत्र प्रकाश्यते तत्र कटुरसवहव्यविलेपनं शिरस्तोदनिवर्तकं भवति । किंचानलमन्दादजीणे जाते सति कुक्षी वेदना जायते । तत्र कटुरसद्रव्यादनं निवर्तक भवति । शीतोदकमानेन रसाजीणे सति सर्वाङ्गेषु पवनप्रकोपो जायते । तत्र अनलसंयोगादिना स्वेदनं आमज्वरादीनां निवर्तकं भवति । तत्र पवनप्रकोपस्य निवृत्तिः यदा भवेत् तत्सिरारन्ध्रमार्गगतपवनगतितिरोधानं सर्वत्रापि मांसधातोः कफग्रस्तत्वात् कफप्रकोपे सति पवनगतितिरोधानं कुरुते । तत्र वेदनाऽपि जायते । तत्र पवनप्रकोपकार्यनिवर्तकद्रव्यं वा भेषजं तजनकक प्रकोपनिवर्तकद्रव्यं वा भेषजम् । तत्र पवनप्रकोपनिवर्तकरसवव्यादनमन्तरेण तत्पवनप्रकोपनिवृत्ति कतुमशक्यत्वात् । तस्मात्कटुरसवहब्यं पवनप्रकोपकार्यनिवर्तके For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy