________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पश्चमप्रश्न:
249
विधेयमिति चेष्टा स्वाचार्यः परेषाम् । रोगजनकसमूहाहेतुत्वात् । कटुरसबद्रव्यं पवनप्रकोपनिवर्तकमिति व्यपदेशमात्रेरितार्थः । तजनकीभूतरसविरसादनादजीर्णजातामपित्तविषक्रिमिनिवर्तनद्वारा कटुरसस्य हेतुत्वमित्यर्थः । कटुरसस्य क्रिमिदोषनिवर्तनमात्रे चरितार्थत्वात् । मांसधातुप्रकोपकारककफोद्रेककार्य पवनोद्रेककार्यहेतुकं तत्कारणनिवर्तकमन्तरेण तत्कार्यनिवृत्तेरसंभवात् । तत्पवनप्रकोपकार्यनिवर्तकं कफप्रकोपनिवर्तकसामग्रीसंपादनमेव विधेयं भवति । तत्सामग्रीसम्पादनं कटुरसदव्यादनमेवेत्यर्थः।
ननु मधुररसगुणाधिक्यद्रव्यं अद्रव्यतादृशाधिक्यद्रव्यादनादजीर्णे जाते सति रसासृग्धातुविकारं करोति । तदादाननिदानभूताः रोगाः जलातिसारमहामलातिसार ग्रहण्यतिसाररक्तपित्तरोगाश्च रक्तवायुश्च संभवन्ति । तनिवर्तकं कषायरसवाव्या. दनमिति मनसि निधायाह-कषायेति ।
कषायरसं विपाचयन् रसासृग्धातुस्थाने स्वतेजसा भाति ॥४९॥
पाचकपित्तेन कषायरसद्रव्यादने पक्वाशयगते सति तत्पित्तकलायाः पाकः क्रियते । तत्पाकजन्यसंस्कारेण रसामुग्धातु. विकारं हरति । तन्निवर्तककषायरसद्रव्यादनं तत्र हेतुरिति रसासृग्धातुविकारनिवर्तकसामग्रीरूपबलवत्तेजसा समर्थोऽस्मीति प्रतिभातीति अत्र स्वतेजसा भातीति प्रतिपादितम् ॥
कषायरसविरसादनादजीणे जति सति तच्छुक्लधातुगतिविकारं कुर्वत् तच्छुक्लगतपवनप्रकोपे सति तद्धातुगतिविहित
AYURVEDA
32
For Private And Personal Use Only