________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चगप्रश्नः
243
सप्तधातूनां षडूसात्मकत्वं स्वावम्लवणतिक्तोषणकषायरसानाममृतपोषकत्वं कथं स्यादित्यत आह-मधुरेति ।
मधुररसं प्रचालयन शुक्लधातुस्थाने स्वतेजसा भाति ॥४४॥
मधुररसवहव्यम, स च पित्तन पच्यमानस्सन् तत्पाचकपित्तपाकजन्यक्रियासंस्कारवशात् शुक्लधातुत्वेन वर्धते । कपायरसद्रव्यादनादजीणे जाते सति पवनप्रकोपो भवति । परनदोषप्रकोपः शुक्लधातुगतस्सन् शुक्लशोषणकार्य करोति । तद्विरसद्रव्यं पाचकपित्तेन पच्यमानं सत् रसामुग्धातुविकारं करोति । शुक्लधातुस्थानं गगनभूतप्रदेशः । गगनभूतगुणाधिक्यद्रव्यसिद्धं तेजः । पित्तकलापचनजातसंस्कारयुक्ततेजस्त्वात् शुक्लधातुरूपगुणो भातीत्यर्थः । तत्स्वादुरसविरसद्रव्यादनादजीर्णे जाते सति सोऽमुग्धातुविकारं करोति । तदनिवर्तन जलमलातिसाररोगादयस्संभवन्तीत्यर्थः । शुक्लधातुवृद्धिरूपल. वणरसाधिक्यद्रव्यत्वात् तेजसा भाति । रसामुग्धातुविकार द्धिश्च एतावरसाधिक्यस्वतेजसा भातीत्यर्थः ॥
ननु यावद्रसवदन्नादनं कफप्रदेशगतमात्रं सत् भुक्तं मधुरीभूतविकारं भजते । ततः पक्वाशयं प्रविश्य आम्लरसावकारं भजन् पाचकपित्तेन पच्यमानं सत् स्वभावाम्लरसवद्रव्यमजाधातुमेधते ॥
धातुगतामयानवहत्य कालपाकजीतीयजातोपाधिकरसप्रधा. नगुणान् यच्छति।
For Private And Personal Use Only