________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
242
आयुर्वेदसूत्रे
लवणोषणजन्यास्थिधात्वाकारभूतष टोणचक्रं कुण्डलीप्रदेशादधस्स्थितत्वात् पृष्ठ वक्रवत् तदूर्बोदरवत् पृष्ठदेशवत् पाककर्मणि सहस्रसिराभिरभिवर्धते । तेषामपि श्वासोच्छासपव नगतिसंयोगद्वारा अभिवर्धितत्वेन श्वासोच्छासयोरेतत्पोषककर्महेतुकत्वप्रतिपादनात् पृष्ठोदरपद्मवदभिवर्धत इत्यर्थः ॥
अस्थिधात्वन्तर्भावितमजाधातोरमृतागमनसंसर्गप्रसंगाभावेन अमृतोपजीव्यत्वं नोपपद्यत इत्यस्वरसादाह-नाभेरिति ।
नाभेरधस्स्थितं कुण्डल्यादिभूतं शतदळ'पद्मं पञ्चसहस्रसिरावृतं सरोरुहमजायत ॥ ४२ ॥
कुण्डल्यधस्स्थितरसासृमांसमेदोधातूनां श्वासोच्छासपचनयोः स्पर्शयोग्यत्वाभावात् उपजीव्योपजीवकसंबन्धस्यानव काशात् तत्पोषककर्मणः आवश्यकत्वेन पञ्चसहस्रसिरावृतशतदळपनं अजायत तावद्धातुपद्मपोषणार्थम् । एतद्विना पोषकत्वाभावेन तदाधारभूतसरोरुहमजायतेत्यर्थः। मजाधात्वन्तभूतस्वादुरसोपजीव्यशुक्लधात्वभिवर्धनकार्य, कथं संगच्छत इ. त्याह-जठरोति। जठराग्नेरालवालकतया भाति ॥ ४३ ।।
जठराग्नेराविर्भूतपाचकपित्तकलापक्कादिकस्य आधारभूतत्वेन जठराग्निरूपपित्तकलाप्रज्वलनार्थ आलवालाधारभावत्वेन ज्वलनक्रियायोग्यत्वात् शुक्लधातोरापादतलमस्तकपर्यन्तं सर्वधात्वाधारकतया आलवालकतया भासत एवेत्यर्थः ॥
दशदल-B.
For Private And Personal Use Only