________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
240
आयुर्वेदसूत्रे
आकारतत्त्वपद्मजनकम् । तद्वायुतत्त्वपद्माजनकम । तत्तेजस्तत्वपद्मजनकम् । तदम्बुतत्त्वपनजनकम् । तत्पृथिवीतत्त्वपमजनकम् । तत्सजातीयाम्लरसविग्सवद्विकारो भूत्वा पृथिवीतत्त्वमम्बुतत्वे विलीयते । स्वादुरसात्मकाम्वुतत्त्वं स्वादुरसविरसवद्विकारो भूत्वा तेजस्तत्त्वे विलीयते । कटुरसान्तर्हि तलवणरसगुणविशिप्रतेजस्तत्त्वं लवणरसविरसविकारो भूत्वा धायुतत्त्वे विलीयते। तिक्तरसगुणविशिष्टवायुतत्त्वं तिक्तरसविरसादनजन्यरोगग्रस्तं सत् आकाशतत्त्वे विलीयते । कषायरसात्मकाकाशतत्त्वं कषायरस विरसादनजातामयग्रस्तं सत् स्वयमेव विलीयते। अयं संहारक्रमः। तत्तत्पद्मनिष्ठरसाः तत्तत्सजातीयविरसद्रव्यादमजातरोगाः संहारक्रमोपकारकाः । एतादृशार्थ मनसि निधाय षट्कमलानामाधरभूतपद्मं तत्तत्पद्मविनाशपूर्वकं तत्तच्छरीरान्तश्शरीरनाशं कुरुत इत्यर्थः।
ननु पञ्चभूतविकाराः पञ्चेन्द्रियाणि । तद्विकाराः षड्रसाः । सप्त धातवः । इति तत्र रसासजी एकीकृत्य षड्सात्मकोऽयमिति उपयुक्तत्वेन रसासृजी एकीकृत्य तथैव प्रतिपादितम् । रसा एव धातवः। धातूनां च रसानां च भेदाभावात् । अतः पञ्चमहाभूतानां इन्द्रियाणां विषयादिवत् रसादीनामपि तद्वदेव भूतविकारत्वं वक्तव्यम् । तस्माद्रसानां षट्संख्यागणनं व्यर्थ स्यादिति ऊषणरसाहितलवणरसस्य अस्थिधातुजनकत्वात् । एतावत्पर्यन्तं वर्णबोधकसिराणामेव . . . . . . . धातुमध्यगतस्सन् उभयपार्श्वधारकत्वेन दशदळप सहस्रसिरात्मकपद्माधारकषट्कोणचक्रस्य . . . . . . . . . त्वात् । लवणोषणरस. योरेकत्वेन दशदळपद्मात्मकास्थिधातुं सम्पद्य एधते । इत्यनुनयेत् । सकलवर्णोद्धोधकसिराधारचक्रमध्ये अदृष्टत्वात् सहस्रसिराधारक
For Private And Personal Use Only