________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पश्चमप्रश्नः
239
भूतपूर्वपदार्थजातेति । पञ्च भूताः पूर्वे यस्य स तथा। भूतपूर्वश्चासौ पदार्थश्च । शरीरं पञ्चभूतात्मकमिति सर्वपदार्थो विवक्षितः । तजाता धातवः। तेषां हेतुभूतो योऽनलः तेनानलेन समरसपचनं सारकिहतया विभज्य पचतीति समरसपचनम् । तस्माच्छुद्धरसवब्यादनजातस्संस्कारः । तस्माद्धातवः पुष्णन्ति । शरीरमभिवर्धते । नीरोगत्वं भजतां पुस्त्वमभिवर्धत इति तात्पर्यम् । इन्द्रियवान् भवति । विरुद्धार्थरसपाकयोगः वि. रसादनपाकजातो यो रोगः स धातुविरुद्दकार्यको भवति । स एवं भविष्यन् विपर्ययो भवति ।
ननु धातूनामाकारज्ञानं विकारज्ञानपूर्वकं तद्विकाराभावकार्याभावज्ञाने सति सृष्टिसंहारक्रमज्ञानात् : विरसादिकार्याभावज्ञानं विकाराभावसाध्यकार्यहेतुकं तद्धिकारकार्याभावहेतुभूतद्रव्याधीनत्वात् यन्नैवं तन्नैवं यधा घटः इति न्यायनयेन ब्यतिरेकानुमानसिद्धौ उक्तरीत्या उपसंहारज्ञानं व्यर्थ स्थादित्यस्वरसादाह-पडिति । 'षट्कमलानामादिभूतं मूलाधारकम् ॥३९ ।।
अस्य सूत्रस्यायमर्थस्सम्पन्न:-आधारपद्माधिष्ठित आम्लरसः। स्वादुरसकमम्बुतत्त्वम् । ऊषणरसाहितलवणगुणविशिष्टमनलतत्त्वम् । तिक्तरसगुणविशिष्टं वायुतत्त्वम् । कषायरसात्मकमाकाशतत्वं च । एतानि पद्मानि रसासृङ्मांसमेदोमज्जाशुक्लधा. त्वात्मकानि पञ्चभूनात्मकानि । प्रकृतिपुरुषाधारसहस्त्रारपनं
। एतत्सूत्रात्प्राक् प्रात:पूर्वाह्रादनगरविकारं निरीक्षयेत् । विसृष्टविण्मूत्राद्विमलाशयः" हात 1& B कोशयोरधिकः पाठः.
For Private And Personal Use Only