SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पश्चमप्रश्न: 235 स्वादुरसवव्यत्वगुणवत् रसद्रव्यमित्यनुभूयने उद्भूतरस. व्यतिरिक्तरसवव्याभावात् । तस्माद्रसादयो गुणा गुणिनमन्तरेण गुणा नावतिष्ठन्त इति द्रव्यमावश्यकम् , द्रव्याश्रया गुणा इति । सप्तधातुकशरीर द्रव्यत्वात् रसादीनां गुणत्वात् गुणगुणिनो दस्य अवसितत्वात् रसायो द्रव्याश्रया भवन्ति। तस्मात्सप्तधात्त्वात्मकप्पडूसव्यतिरिक्त इति न वाच्यम्, द्रव्यरसात्मकत्वात् । शरीरान्तस्स्थितरसाः धातुरूपेण परिणमन्ति | तावद्धातूनां द्रव्यनिष्ठत्वात् धातूनां द्रव्यगुणत्वात् रूपादिवत् भेदो न दृश्यते । रसवद्रव्यं रसनेन्द्रियविषयकम् । रूपवद्रव्यं चक्षुरिन्द्रियविषयकम् । रसद्रव्यं रूपरसवदव्यं साहश्यात् । षड्सविकार एव धातुरिति रससत . . . नेन्द्रियेण गृह्यते । तत्सजातीयं सप्तधातुसजातीयरसेषु लभ्यते । तेऽन्तस्थितास्सन्तः धातुमेव पुष्णन्ति । तद्यथा --इश्नुकाण्डस्थितस्वादुरसः यत्रयत्र भेदवशात् वर्तते तनिष्ठस्वादुरसं संगृह्य तत्संसर्गजातिद्रव्यं विभजन रसं करोति । तदनन्तरं तत्स्वादुरसं विहाय तत्संयोगिद्रव्यं पृथक्तया तद्भक्ततया भजते रूपादिवत् । असिगाभवनं बुद्राभावात्।। नीलो घट इति घनिष्ठनीलरूपं विहाय अन्यद्रव्यावयवतया स भासते । अत्र रसव्यतिरिक्तद्रव्यस्थाभावात् तद्वत् एषु च धातुत्वपृथगाकारकतत्तद्गुणविशिष्टतया चक्षुःप्रतीतिः जायते । तद्वत् लवणोषणकपाया इत्यायन्ते, आश्रयादिवत् । शरीराङ्गस्थितानि भवन्ति । तेन रसादय इत्याहूयन्ते । न वाच्यम्, शरीरं सप्तधात्वात्मकम् । धातवश्च रसात्मकाः शरीरं रसात्मकद्रव्यं सप्तधात्वावृतत्वात् । तदर्थ पृथुबुध्नोदराकारत्वैकभासं तत् । स्वादुरसश्शुक्रश्लेष्मरूपवत्वेन परिणमति । आम्लरसः मज्जा. रूपाकृतिः परिणमति । लवणरसः अस्थिरूपाकृतिः परिणमति । For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy