________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
234
आयुर्वेदसत्रे
शयति, मुञ्चति-इत्येतेषां पञ्चविधर्मणां शरीराधारकत्वाच्च कफदोषस्यापि शरीरदाकारकत्वात् दोषत्रयं शरीरं रक्षति । तस्माददोषत्वं कथं शरीरोपकारकमिति नाशङ्कनीयम् ।
दोषाणां विकारकारकत्वाभावः अदोषशब्दार्थः । सदो पाः विकारकार्यापादकगतिगुणविशिष्टदोषाः । सदोषास्सप्तधातुशोषकारकाः । तस्माच्छरीरस्य सदोषत्वं दुष्कर्मानुभववशालभ्यते। तेन धातवः पीड्यन्ते । दुःखं चानुभूयते । समदोषत्वं नाम तदुभयाभावगतिविशिष्टदोषाप्रविवर्धकत्वम् । तेन धातवः पुग्णन्ति । नीरोगत्वं प्राप्नुवन्ति । तस्मात्समदोषं यथा भवति तथा शरीरं संरक्षणीयामित्यर्थः। सर्वदा शरीरस्थदोषाणां एकरसहेतुभूतकार्यस्य किंचिन्निमित्तं वक्तव्यम् । तदेतद्रसजन्यविरसपरिणामजातरोगकार्यमेवमिति ज्ञातव्यम् ॥ . ननु विषमगतिविशिष्टो यो दोषः तस्य वैषम्ये रोगः । दो. पस्य समा गतिरारोग्यामति व्यपदेशः कृतः। तथा सति षड्रसाः सप्तधात्वात्मकाः। विरसषट्कस्यादनं धातुशोषकम् , तद्रसारमकदोषधातुविरसदव्यत्वात् इत्यनुमानेन धातुशोषककार्यस्य रसादिहेतुत्वम् । तस्मादोषवैषम्य रोगः । दोषसाम्यमरोग इति यत्प्रतिपादितं तद्विरुद्धमित्यत आह-त शते ।
ते त्रयो दोषहेतुभूतास्सप्तधातव इति ॥ ३३॥
सप्तधातव इति व्यपदेशमानं भवति । षड्सा एवं निश्चितम् । तेषां सप्तसंख्याकत्वं कथं स्यादिति न वक्तव्यम् । रस एवासक् इति तयोः पार्थक्याभावविवक्षया सत्यं षड्रसास्सप्तधातव इति न्यवहतुं शक्यते । तथाहि
For Private And Personal Use Only