________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमप्रश्न:
233
त्वात् । तद्विरसानुसरितसंस्कारोबोधकसंसर्गसिराधिगतदोषगतिविकारकार्यकारकोपयोगिरसधातुत्वात् । अधौतधातुं संप्राप्य पवनविकारकारकगतिः तदन्यविकारकारकत्वात् श्वासं च मूर्छा च (करोति)। तदुभयोरपि रसधातुजत्वेन दृश्यत्वात् । एवं रसधातुं संशोध्य अन्यधातुशोषं कर्तुं स एव ज्वरः तद्धातुं मंप्राप्योज्जृम्भते । भ्रमच्छर्दी भवतः। एवं मांसधातुं संप्राप्य हिकादिशोको भवतः। एवमेवान्यधातुं संप्राप्य भ्रमहिवारोगो जायते । स एव ज्वरः कासमन्वहं जनयन् वर्तते । अस्थि संप्राप्य शोकं करोति । स एव ज्वरः वातपित्तकफानुमारितस्सन्मजाधातुमवलम्ब्य विजृम्भते । तदा स दशावध. रोगाकारों भवति । एवमन्यदोषजाश्चति सूत्रन्याख्यानं कृतम् ।
ननु रसविरसजन्यविरसाधिकविरुद्धरसदोषाः सर्वरोगहेतुकाः । अजीर्णगुणाविर्भावज्ञानाभावजन्यविरसजन्यदोषवि. काराभावज्ञापकशुद्धरमशानदोषाः विकाराभावकार्यकारकाः । एवं दोषाः सर्वरोगहेतुकाः । ...
एवं दोषाः दुष्टास्सन्तस्त्रयोऽपि विकारकारका भवेयुः दोषधात्वात्मशरीरिणः । सुकर्मपरिपाकवशात् दोषा अदुष्टास्स. न्तः विकारप्रतिबन्धका भवेयुः। सर्व रोगाः विरसजाता इति यत्प्रतिपादितं तन्न, क्षादक्षमामेत्यस्वरसादाह-- अदोषा इति ।
अदोषास्सदोषास्समदोषास्सरुजा रुजः॥३२॥
• प्राणापानव्यानोदानसमानाः पञ्च वायवः शरीरकार्योपका. रकाः । शरीराधारकस्य अदोषत्वं कथं सम्यक्तया भासते? पित्तस्थापि दोषत्वादेव सदोषपञ्चरूपोपपत्रं संगृहाति पचति, विदे
AYURVEDA
30
For Private And Personal Use Only