________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
232
आयुर्वेदसूत्रे
द्विरसाधिकैकजातत्रिदोषरसरूपानुगुणरोगा असाध्याः ॥३०॥
वातपित्तप्रकोपजनका द्विरसाः आमरसस्थितकालजातज्व. रप्रकोपकारका भवन्ति । तदा आमरसविरसवत्त्वं विरुद्धकार्यजनकं द्विरसादिविरसान्तरजनककालहेतुकद्रव्यत्वात् । इत्येष ज्वरः सप्तधातुगतस्तन् प्राणघातको भवति । तादृशरोगोऽसाध्यो भवति । तथाहि___ तत्तज्ज्वरोत्पादकामरसविरससामग्रीकार्य ज्वरोत्पादककार्यमा सप्तधातून्विशोग्य प्राणान्विमोचयति इति यदुक्तं तच्चिन्त्यम् । आमो ज्वरमात्रोत्पादकसामग्री ज्वरं जनयित्वा स्वयं तत्क्षणजन्यसंस्कारं तत्तत्कायें विधाय स्वरूपान्न दृश्यते। तेषु पोतदसामग्रीजन्येषुवत (?) सर्वज्वराणामजीर्णजन्यत्वात् ।
ज्वरोत्पादकसामग्रीमात्रजन्यज्वरः प्राणान्विमोचयतीति य. त्तत् तथाचेदतिप्रसंगस्स्यादित्यस्वरसादाह-एवमिति ।
एवमेकधातुगताश्चासाध्याः ॥३१॥
एवमुक्तरीत्या तदुपद्रवरोगाश्च प्राणघातकाः। तद्विरसजन्यदोषानुसरितज्वरहेतुकप्राणापकारकद्रव्यत्वात् । विषादनजातरोगवच्छरीरवत् । वर्णोपधगपनानुसारिकवर्गपञ्चकक्षापकपद्माधारकासराः धातुशोषकपोपकाः तदाधारकरसवदाश्रितशरीर
1 एतस्तूत्रात्पूर्व- "अस्थिमजानुगतानुसारतप्रकोपजाता असाध्याः । एवमन्योन्यदोषजाताश्च" इति A & B कोशयोगधिकः पाठः.
2A & B कोशयोरेतन्न दृश्यसे.
For Private And Personal Use Only