________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पश्चमप्रश्नः
231
लोहसाधारणमहारसानामन्यद्रव्यसंयोगजन्ययोगकरणं गुण प्रयच्छति । तद्विरसान्तरप्रापकसामग्रीसान्निध्याभावद्रव्यत्वात् ।
ननु यावदोषप्रकोपहेतुकविरसद्रव्याजीर्णजन्यज्वराः तत्तहोषनिवर्तकाः, दोषप्रकोपजनकस्वादुरसविरसद्रव्यजाताजीर्णज-' न्यज्वराः तत्तदोषनिवर्तकाः दोषप्रकोपजनकस्वादुरसविरसद्रव्य जाताजीर्णजन्यत्वात् । अजीर्णजन्यविरसरसाः ज्वरोपद्रवकार्य कुर्वन्ति, तदुपद्रवावशिष्टज्वरनिमित्तकद्रव्यत्वात् ।
ज्वरप्रकोपज्ञानजनकदशोपद्रवरोगाणामुत्पत्ति दर्शयितुं व्याचष्टे-एवमिति । · एवमन्योन्यदोषजाताश्च ॥२९॥
अन्योन्यनिमित्तकज्वरोपद्वाः दशाविर्भवन्ति । श्वासमूछीभ्रम छर्दितृष्णातिसारहिक्काकासाङ्गवेधनमूढातिरोगाः। एते ज्वरोपद्रवा दश । तदुपद्रवाविर्भावजनकसामग्री ज्वरप्रकोपकार्यहेतुभूतामरसविरसविषक्रिमिसंस्पर्शनं यावद्वर्णाधारकपद्मावलम्बकसिरासंस्पर्शजातपवनगतिविकारजन्यतत्तद्रोगकार्यसिरागतपवन-- गतिजन्यरोगात्मकान्योन्यसंसर्गहेतुभूतत्वात् । एवमन्योन्यदोषजातरागाः ज्वरप्रकोपकार्यहेतुका इत्यर्थः ।
ननु विरसाधिक्यजातज्वरः मांसमेदोदोषगत इत्युक्तत्रिविधरसाधिक्यजातज्वरश्चेत् अस्थिमजाधातुपर्यन्तं ज्वरोऽनुधावति । दोषत्रयप्रकोपजनकविरसजातज्वरस्य अस्थिमज्जाधात्वधिरोहकत्वात् । अयं त्रिदोषज्वर इति व्यवहर्तुं शक्यत इत्यत आह-द्विरसेति ।
For Private And Personal Use Only