________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
230
आयुर्वेदसूत्रे
द्वयोर्वातपित्तयोः प्रकोपकार्यहेतुभूती यो रसौ, अल्पस्वादुरसविरसः पवनप्रकोपहेतुकः । अधिकस्वादुरसविरसः पित्तप्रकोपहेतुकः । तावेव विरसौ कार्यभेदकारको। ताश्यामुत्पन्नो विकारः द्विरसजः । द्विदोषप्रचारोति । चरतीति चरः । प्रकृष्टं चरतीति प्रचरः । रसासृमांसधातुविधा ये ते मांस मेदोऽनुगता इति । शिरः षट्कमलात्मकं, मांसाधारकं शिरः । मेदोधारकं भिन्नम् । तद्धातुशोषकरसौ भिन्नौ । तत्र स्वानुगत. कार्यमुद्दिश्य प्रवर्तको यौ रसौ तावव प्रधानभूतकर्मकारको। एवं रसप्रधानकदोषपचनं यत्रोपलभ्यते तत्रेयं सूत्रप्रवृत्तिः। प्रकारान्तरमपि द्योत्यते । रसविरसजन्यदोषप्रकोपस्य पचनलङ्घनौषधैः प्रकोपराहित्यकरणमेव पचनमिति केचियाख्यानं व्याचक्षते । रसप्रधानकदोश्पचनं रसोपरसलोहादीनां महारसानां योगकर्म सर्वरोगनिवर्तकमिति विवक्षितम् । ताव्यनिष्ठरसाः तैजसा इति व्यवह्नियन्ते । तत्सजातीयानलसंयोगेन तद्रसेषु तत्तगुणा आविर्भवन्ति । एतत्सर्व तैजसद्रव्यं आमविरसविषजन्यप्रकोपजन्यरोगाणां निवर्तकम् । रसवाव्यनिष्ठषड्रसादीनां अनलसंयोगजन्यरसविशिष्टद्रव्यमधिकरसाविर्भावप्रभावहेतुकं,अधिककालरसगुणप्रधानरूपकाकारद्रव्यत्वात् तैलघतलेह्यादिवत् ।
अनलसंयोगजन्यमहारसवहव्यनिष्ठषड्रसादिरसगुणः कालपानयोगकरणजातरसविरसादिविभावादेव रसगुणविशिष्टगुणप्रधानशीलकः अनलसंयोगजन्यगुणाविर्भावगुणविशिष्टकालाधिक्यद्रव्यत्वात् यन्नैवं तन्नैवं यथा कालादिः इत्यनुमानप्रमाणशानस्य तदधिकरणशापकत्वं विवक्षितम् । एवं द्वन्द्वरोगाणां सर्वपदार्थेषु निवर्तकज्ञानमनिवर्तकज्ञानमुभयज्ञानविषयकज्ञानं रोगनिव. तककार्यहेतुकम् । निवर्तकैकनिवृत्तद्रव्यत्वात् । इतररसापेरस
For Private And Personal Use Only