SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 220 आयुर्वेदसूत्रे चरमरसपचनधातुर्मजाधातुश्शुक्लधातुरिति तावुभौ चरमधातू इत्युपलभ्यते । पवनपित्तकफरोगाणामस्थिधातुपर्यन्तं गतिभवति । तदा तद्धातुशोषणमात्रं कुरुते । प्राणघातं न करोति । यावद्विरुद्धरसादनसामग्रीजातरोगस्य यदा मजाधातुप्रवेशो भवति तदा प्राणान्विमुच्य निर्वाणं गच्छति । तदा त्रिदोषगतिरिति विज्ञेया। . ___ननु तत्तद्विरुद्धरसद्रव्यादनेन तत्तदोषाः प्रकुपिता भवन्ति । सर्वे रोगाः दोषप्रकोपजन्याः । तत्तद्रोगनिवृत्त्यर्थ दोषपचन कार्यमित्याह--यावदिति। यावदादोषपचनं निवर्तकं ॥ २२ ॥ यावन्तो रंगाः यावद्सदोषजन्या इति दोषप्रकोपत्वभूयो. भूयोदर्शनहेतुभूतव्याप्तिग्रहजन्यानुमानं तत्र प्रमाणमित्यर्थः । पक्वाशये विरसप्रधानास्ते दोषाः विकारं भजन्ति । धातुमार्गे सञ्चरन्ति च । अनलाद्यामरसास्ते प्रादुर्भवन्तो घ्राणेन्द्रियविषया भवन्तीत्युक्तम् । तद्विरुद्धदोषगमनप्रतिवन्धकार्य तत्वाचनविधिप्रयतनं लङ्घनकरणेन प्रेक्षणीयम् । स एव फलितार्थ इत्याहयावदिति । यावहातप्रसादाधीनो दोषपचनकालः ॥२३॥ विरुद्धरसजातरसासृग्धातुविकारकारकस्यामरसवद्रव्यादनजन्याजीर्णजन्यकफरोगः । विरुद्धरसजाततदितरपवनपित्तविकारहेतुकरसविरसद्रव्यादनाभावकार्यावलम्बिलङ्घनकरणमेव भेषजं 1 रसाजीर्णविरमाधिकविरुद्धरसजदोषाधिकैकवशानिर्गतस्वस्थानच्युतो बहिरुज्ज्वलयन् ज्वरस्सामजातः । विषमरसपचनरसविरसादियावद्धातप्रसादाधीनो दोष--इति A & B कोशयोः पाठः. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy