________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पश्चमप्रश्न:
219
views
ऽपि विकारं भजति । विषमरसपचनमपि करोति । तत्संस्कारजन्यपवनगतिःविस्वरवर्णकशब्दज्ञापकताल्वोष्टपुटव्यापारं करोति। तत्पदाधारपान मुकुलीकरोति । तदनन्तरमपि पित्तप्रकोपकारकरसवद्दव्यान्तरापादनेन तत्तत्संस्कारजातगुणान्वयमेव बिभर्ति । यदा तद्यावद्विकारं करोति तदा पित्तविशिष्टपवनगत्यैव शाप्यते। रसविषमंदोषेण संस्कारजातपित्तविकारयुक्तस्सन् तत्तद्धातुमार्ग संप्राप्य सञ्चरन् तत्तद्धातून् सन्दूष्य तत्तद्विकारज्ञापनं कुरुते । तदा पित्तप्रकोपदोषोऽयमिति ज्ञातुं शक्यत एवेत्यर्थः । एवं कफप्रकोपकारकद्रव्यान्तरादनं संभवति । तदा कफप्रकोपज्ञापकगुणान्विधत्ते । कफपित्तामयगतो देवदत्तः इति तत्तद्रव्यगुणविशिष्टपवनस्य तत्तद्दोषगुणज्ञापकगतिः परेषामपि ज्ञाप्यत इति । अयं कफरोगयुक्तः पवनविकारः द्वन्द्वयुक्तपवनविकारकफज्ञापकगतिं करोति । तदा विषमरसादनजातसंस्कारगुणविशेषपवनदोष एव अनेकधातुमार्गगतिकारकशक्तया भवति । तत्तद्धातुपोषणं च करोतीत्यर्थः।
ननु पित्तप्रकोपरसवद्दव्यादनेन पित्तप्रकोपकारकगुणान् गच्छति । स एव पित्तपवनप्रकोपगत्या ज्ञातव्यः । एवं व फ. प्रकोपकारकरसविरसद्रव्यादनेन कफप्रकोपगुणान्विधत्ते । तदा कफप्रकोपद्वन्द्वगतिरिति व्यवह्रियते । एवमयं त्रिदोषरोग इति एवमाकारज्ञानेन व्यवहर्तुं शक्यते । तत्तजनकाङ्गानामदृष्टत्वात् 'अयं त्रिदोषरोगः' इति ज्ञानं चात्र कथं स्यादित्याह--चरमति ।
चरमरसपचनरोगस्त्रिदोषगः ॥ २१ ॥
। एतत्सूत्रात्पूर्व- 'विषमरसानेकपथधातुमार्गगाः द्विदोषगाः । इति A & B कोशयोरधिकः पाठः ।
For Private And Personal Use Only