SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 218 आयुर्वेदसूत्रे चिकित्साकाले पण्डितानां द्रव्यज्ञानमावश्यकमिति कालयोगविषयद्रव्यज्ञानं देशयोगविषयद्रव्यज्ञानं देहयोगविषयकद्रव्यज्ञानम् - - एतत्सर्वज्ञानं विना पञ्चभूतात्मकरसवद्रव्यज्ञानं किमासीदित्याह--देहेति । देहदेशकालद्रव्यकर्मणां यथायोगकरणं यावद्रोगघातकम् ॥ १९ ॥ देशभेदेन द्रव्यभेदं विज्ञाय चिकित्सा कार्या । कालभेदेन द्रव्यभेदं विज्ञाय चिकित्साकरणं विधिः । एतेषां कर्मकरणं यथायोगकरणं तत्तद्देशीयानां तत्तद्रव्यभेदगुणं विधत्ते । तत्तत्कालविशिष्टदेहानां तत्तद्रव्यभेदगुणं विधत्ते । एवं देहदेशकालभेदेन रवद्रव्याणां योगः बहुविधगुणान् प्रयच्छतीत्यर्थः । तत्तद्रव्यकर्मणां यथायोगो यावद्रोगघातकः । ननु तत्तद्दव्यभेदगुणं देशकालभेदज्ञानेन तत्तन्निवर्तकरसव्यकर्मणां कृतिः अनेकधातुसञ्चलितजनितदोषस्यापि एकधातुकत्वात् अयं द्विदोषः त्रिदोषोऽयमिति प्रतीतिः तज्जरसामयभावादेव तद्ज्ञानं कथं स्यादित्यस्वरसादाद - विरसेति । विरसविषमपचनजातद्विदोषैकविधधातुमार्ग 2 गा द्विदोषगाः ॥ २० ॥ विरसविषमपचनं नाम विरुद्धरसवद्द्रव्यसंयोगजयाबद्द्रव्यं पक्वाशयं प्रविश्य तव्यानुगुणविकारं कुरुते । तत्पाचकानलो 1 नैतत् A. B. कोशयो दृश्यते. 2 'एतत्सूत्रात्प्राकू -- यावद्धातुविरुद्धरसादिगततद्वसाभावदर्शनकालो दोषपचनकाल: । विरुद्धरसजातयावद्धात्वधि रोहधातुकः । इति द्वे सूत्रे A & B कोशयोरधिक दृश्येत. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy