________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पश्चमप्रश्नः
Acharya Shri Kailassagarsuri Gyanmandir
द्रव्यावयवविकारहेतुकं अनिलद्रव्यादनगुणोपलम्भकतद्रसाधिक्यद्रव्यादनम् । आकाश द्रव्यावयवविकारहेतुकमेव । एवं विरुद्धविषयस्य प्रतियोगित्वेन हेतुत्वात् ।
217
ननु तत्तद्रव्यगुणविशिष्टसानुगुणयावद्रसवद्दव्यं यावद्रोगघातकमिति वर्तते । तथाहि - गगनभूताधिक्यज्ञापककषायरसानुगुणं सत् श्रोत्रविवरप्रदेशगतशब्द ज्ञानप्रतिबन्धक श्रोत्राकाशविवरगतनामसकषायरसाधिक्यद्रव्यं तन्निवर्तकं स्यात् । तस्मात्तद्गगनगुणाधिक्यमिति विज्ञेयम् । तथैव पवनगुणाधिक्यद्रव्यमपि वि ज्ञेयम् । पवनगुणाधिक्यद्रव्यशापक मृदुस्थिरगुरुद्रवद्रव्यज्ञानं विरुद्धविषयक पवनभूतावयवांधिक्यज्ञापकं पाञ्चभौतिकविरुद्धविषयकद्रव्यमिति । एवमनिलाधिक्यगुणज्ञापकलक्ष्णसान्द्रतादिगुणाधिक्यतैजसगुणाभिवर्धकद्रव्यं अनलभूताधिक्यज्ञापकं पा ञ्चमैौतिकम् । एवं जलभूताधिक्यज्ञापकस्निग्ध हैमगुणविशिष्टजलद्रव्यं विरुद्धविषयकम् ।
एवं पृथिवीत्वज्ञापके गुरुत्वमन्दत्वे । आम्लरसद्रव्यत्वात् । पार्थिवद्रव्यावयवाधिक्यस्वादुरसज्ञापकं यत् तत्पञ्चभूतात्मकं विरुद्धविषयकम् । एतत्सर्व विज्ञाय चिकित्सा कार्या ।
ननु चिकित्साज्ञानं विरुद्धविषयकज्ञानपूर्वकम् । विरुद्धविषयकत्वं नाम विरुद्धद्रव्यज्ञानविषयकत्वम् । तत्र विरुद्धद्रव्यज्ञानस्य प्रतियोगित्वेन हेतुत्वात् । तथा सति शरीरस्य लक्षणं पञ्चभूतात्मकत्वम् । तल्लक्षणं तद्ज्ञानपूर्वकम् । तत्र श्रुतिः -
८८
1
आकाशाद्वायुः । वायोराग्नः । अग्नेरापः । अद्भयः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्योऽन्नम् | अन्नात्पाञ्चभौतिकं शरामते । "
AYURVEDA
For Private And Personal Use Only
28