________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
216
आयुर्वेदसूत्रे
इयं दोषविकारगतिः, इयं दोषविकाराभावगतिरिति विरुद्धाविरुद्धरसवद्रव्याद्नजन्या शत प्रतिपादिताः, विरुद्धाविरुद्धरसवद्रव्यादनमात्रज्ञानहेतुकत्वात् इत्यनुमानरचनेन प्रतिपादिता सती वर्तते। बलवद्वह्नयादिका ये एतत्प्रतिपादितार्थावच्छेदकत्वानुभवास्त एव शरीरं तथा रक्षन्ति तद्भक्षितान्नं तेनानले. न जीर्यते, एतत्प्रतिपादितार्थस्य संभावितत्वादित्यस्वरसादाहविहितेति ।
विहितपाक हेतुरसा विपाकान्तस्स्थितविरुद्धरसा विषमदोषधातुमार्गगा विषमदोषाः ॥ १८ ॥
विरुद्धाविरुद्धरसद्रव्यादनज्ञानं विहितरसविपाकान्तस्स्थरसवद्रव्यादनज्ञानपूर्वकं तद्विकारकार्यहेतुभूतरसवव्यादनज्ञानजन्यनिवर्तकशानपूर्वकत्वात् । तेऽन्तास्स्थतरसादनविरुद्धरसाः विकारकारकाः तद्विकारग्रस्तदोषा विषमदोषाः, धातुमार्ग गच्छन्तीति धातुमार्गगाः । त एव विषमदोषा इत्यर्थः। तद्विरसबद्दव्यादनजन्यावकारज्ञानज्ञापकं स्वहस्ततलमेव घ्राणेन्द्रियविषयकज्ञानग्राहकं तत्प्रत्यहं तत्रैव यावद्रसाभावदर्शनं आरोग्यहेतुकमिति प्रत्यहं विज्ञाय तत्तु भूयोभूयो दर्शनेन स्वहस्ते वा अन्त स्स्थितामयानां हेतुभूतरसाः दक्षिणहस्ततले आविर्भवन्तिाआरोग्यज्ञानं यावद्विरसादनजन्यामयहतुकरसविरसाभावज्ञानविषयकज्ञानं भावतुमर्हति । तथाहि-नाणेन्द्रियविषयहस्तगतरसज्ञानं विपाकान्तस्स्थितामयहेतुरसविरसाविर्भावज्ञानविषयकशानहेतुकरसविर - सादनजन्यामयज्ञानहेतूपलम्भकं तद्रसवद्रव्याधिक्याननम् ।अनिल.
1 वातौहितरसा;
मार्गका-A. & B,
For Private And Personal Use Only