________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमप्रश्न:
221
भवति । यावद्धात्वधिरोहणपर्यन्तं लङ्घनकरण भेषजं भवति । तदितरदोषाभावकार्यकरणं सुभेषजं भवतीत्यर्थः । स एव यावद्धातुगतसामयैकधातुगतामय इति शेयम् ।
पक्वाशयेन सान्द्रसान्द्रतानलेन दोषविकारपाचनविधि प्रयतनं लङ्घनकरणमेव फलितार्थः।। ____ ननु दोषप्रकोपाभावशानं तत्तद्रोगकार्यहेतुभूतविरसादनविषयकशानव्यतिरिक्त ज्ञानजन्यज्ञानविषयकं, समर्थप्रवृत्तिजनकज्ञानविषयकत्वात् इत्यनुमानप्रयोगप्रकारेण रोगनिवृत्तिज्ञाने सति रोगाभावज्ञानं जातम् । तेन दोषप्रकोपनं विना तदभावज्ञानं कथं लभ्यत इत्याशयं मनसि निधाय विरुद्धेतिसूत्रस्य अस्वरसान्तरमाह-विरुद्धेति । विरुद्धरसजातयावद्धात्वधिरोहणादेकधातुकः॥२४॥
अस्यार्थ व्याचष्टे
एकविरुद्धरसवद्रव्यादनजन्याजीर्णजन्यसंस्कारविशेषदोषधातुगतिः एकविरसद्रव्यादनजन्या सा गतिः विरसद्रव्यादनजन्याजीर्णजाता सती अनेकधातुसंचारकायें दृष्टे सति एकरसविरसद्रव्यादनजाताजर्णिवत्त्वं अनेकविरसादनजन्यत्वाभावेन अयं एकधातुविकारकरोग इति ज्ञानं कथं प्रवर्तते ? तस्माद्विरसादनजातरोगः यावद्धात्वारोहणात् अयं एकधातुगतिजातरोगः, अयं द्विदोषगतिजातरोगः इति ज्ञातुं निवर्तकाभावहेतुरोगाभावस्य तद्धेतुत्वज्ञापकत्वात् तदभावाद्यहेतुत्वात् अर्णिजन्यरोगाभावकार्य तद्धेतुनिवर्तकलङ्घनेनैव भाव्यं, इति अनुमानप्रमाणेन यत्र अजीर्णाभावः तत्र रोगाभाव इति तयोः व्याप्ती सत्यां दोषपचनं निवर्तक स्यादिति न वाच्यम् । दोषाः दुष्टास्सन्तः क्षुभिताभ
For Private And Personal Use Only