________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पश्चमप्रश्नः
213
यकटकै
वेयुः, तेषां धातुपोषकत्वस्य वक्तुं सुकरत्वात् इत्याशयं मनसि निधाय यद्रसेभ्यो व्याधयस्सम्भवन्ति तैरेव ते निवर्तन्त इति तदुभयमपि व्याचष्टे-पक्केति । - पक्कामाशयगाः पवनाद्याः स्वादुक स्तिक्ताम्ललवणैः कालपाकजयोग्यैः धारणरेचकात्मकद्रव्यैर्विविधैः द्विविधामयाः प्रवर्धन्ते॥१५॥
पक्कामाशयगाः पवनाद्या इति पक्वाशयमलाशयगता दोषाः लवणैः स्वादुकषायकटुकैः केवलं स्वादुरसद्रव्यादनं कफप्रकोपहेतुकं भवनि, स्वादुरसजन्य: पवनप्रकोपो जायते, तत्पवनप्रकोपनिवृत्त्यर्थ लवणाम्लरसद्रव्यादनं कुर्यात् । केवलं कटुरसद्रव्यादनं पित्तप्रकोपजनकम् । पित्तप्रकोपनिवृत्त्यर्थ स्वादुरसद्रव्यादनं कुर्यात् तिक्तरसद्रव्यादनं च । उभयं पित्तनिवर्तकं भवतीत्यर्थ इत्येवंप्रकारेण आयुर्वेदप्रणेतृपरब्रह्मतात्पर्य वर्णितमित्यर्थः। त. थाहि-अतिकटुरसद्रव्यादनेन पवनप्रकोपहेतुकरूक्षगुणविशिष्टद्रव्यादनात् पवनप्रकोपो जायते । कटुरसद्रव्यादनात् रूक्षप्रकोपतैजसगुणजन्यग्रहणीकलाप्रकोपस्य दृष्टत्वात् । तेन पवनप्रकोपे सति ग्रहीकलायाः सन्धुक्षणकारकस्वभाववत्त्वेन पवनः अतिप्रज्वलनहेतुभूतो भवति । अथवा अतिमान्धकारको वा भवति । तस्मात्कटुरसद्रव्यादनं पित्तप्रकोपकारकं रूक्षगुणविशिष्टपवनप्रकोपहेतुभूतकटुरसवदव्यत्वात् । तेन ग्रहणीकलाया एव पित्तद्रव्यत्वात् तया अनिलसमगत्या ग्रहणीकला शुद्धा सती प्रज्वलिता भवति । तद्विषमगत्या तद्विकारो भूत्वा अनलं मन्दं करोति । तेनाजीगरोगाश्चाविर्भवन्तीति परब्रह्मण. आशयश्च वर्णित इत्यर्थः॥
1 कालपाकजैर्योग्यैः --~A & B 2 द्विविधैः ---A & B
For Private And Personal Use Only