________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पश्चमप्रश्न:
209
कारकाणीति सूत्रसिद्धमपि एतद्विरसादनं पवनप्रकोपं करोतीति तात्पर्यम् । अत एव सूत्रान्तरं व्याचष्टे-कटुकोति। कटुकातिकटुकः कफानिलं हन्ति। पित्तं कुरुते॥१० शुद्ध कटुरसः पित्तप्रकोपं कुरुत इत्यर्थः । __ कषायः कफपित्तं हन्ति। मारुतं कुरुते । हीनाधिककषायः कफमारुतं हन्ति। पित्तं कुरुते ॥११
कषायः कफपित्तं हान्त । मारुतं कुरुते' इत्यस्य सूत्र स्य तद्वदेव व्याख्यानं योजनीयम् ।
ननु षड्रसद्रव्याणां मध्ये एकरसद्रव्यस्य तत्तद्रोगनिवृत्तिकार्य तत्तत्कर्म तत्तत्फलं च प्रतिपादितम् । इदानी बहुरसदव्याणां योगकार्यस्य तत्तद्रोगनिवृत्तिरेव फलं यत्र दृश्यते तत्र अनेकरसवदव्याणां समूहकार्यकारकत्वं भवतीति मत्वा एकरोगनिवृर्त्यर्थमनेकरसद्रव्यागामनेकत्वंयत्रापेलभ्यते, तत्र बहुरसबद्दव्याणां एकरोगनिवर्तकत्वस्यायोग्यत्वात्, तत्तद्वयाधीनां निवर्तकत्वमनेकद्रव्याणामिति तत्तद्वयाधिनिवर्तकत्वावच्छेदकत्वस्य वक्तुमायोग्यत्वात्, एकै द्रव्यस्य एकरोगनिवृर्तकगुणत्वावच्छेदकस्य भिन्नत्वात् “बहुकल्पं बहुगुणम्' इति न्यायशास्त्रमवलम्ब्य बहुगन्ययोग कार्यकारकत्वमुक्तं चेत् अतिप्रसङ्गः स्यात्। एकद्रव्यमेकरोगनि वर्तकमित्यर्थस्य बहुशोदृष्टत्वात् । मलनिरोधनहेतुजन्यरोगे एकस्यैव रेचकद्रव्यस्य तन्निवर्तकसामथर्यस्य बहुद्रव्येषु बहुशो दृष्टत्वात् । तत्रापि बहुद्रव्यकल्पनागौरवात् एकद्रव्यस्यैव एकरोगनिवर्तफसामर्थ्यस्य बहुशो हष्टत्वात् इत्यस्वरसादाह-दोष इति।
AYURVEDA,
27
For Private And Personal Use Only