SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 208 www.kobatirth.org आयुर्वेदसूत्रे पित्तं हन्तीत्यस्य अनिलभूताधिक्यगगनभूत संयोगजन्यत्वात् रसग्रहणीकला सन्धुक्षणपत्रनभूतगगनभूतसंयोगाज्जाततिक्तरसः उभयोरपि सर्वागमव्याप्यद्रव्यत्वात् पित्तप्रकोपनिवर्तकत्वं वक्तुं शक्यत एवेत्यर्थः । ननु तस्य तिक्तरसस्य पवनप्रकोपकारकत्वं न संभवति स्वजन्यत्वात् 1 स्वजनकशरीरच्युतनिम्ब कुष्ठभूनिम्बशृङ्गिशाकैक कटककुटजपटोलकुमारिभूतलततलपोटुकर्कन्धूदेवगुग्गुलाद्याः तिक्तरसपदार्थाः पवनप्रकोप कार्यनिवर्तक द्रव्यत्वात् भोगयोग्यद्रव्यत्वाच्च जठराग्निप्रज्वलनकार्याणां हेतुभूतद्रव्यत्वाच्च । सर्वे ते पवनप्रकोपनिवर्तका इति विज्ञातत्वात्कथं " मारुतं कुरुते " इत्युकमिति नाशङ्कनीयम् । तिक्तरसविरसवव्यादनं पवनप्रकोपं कुरुत इति तात्पर्यात् । विरसद्रव्यादनं नाम विरुद्धरसव्यादनम् । तदेव विषवव्यादनं भवतीत्यर्थः । अनलानिलभूतावयवाधिक्यजातकटुरसः कफप्रकोप निवर्तक इत्याह-कट्ठिति । Acharya Shri Kailassagarsuri Gyanmandir 1 कटु कफं हन्ति । वातपित्तहेतुकम् ॥ ९ ॥ कटुरसस्य कफनिवर्तकत्वं सुप्रसिद्धमेव । पित्तप्रकोपकारकत्वमपि सुप्रसिद्धमेव । कटुकाः शुद्धरसाः कफरोगनिवृत्तिका - रकाः पित्तप्रकोपं च कुर्वते । इत्येतद्वयं सुप्रसिद्धम् । अनलानिलभूतजन्य कटुरसद्रव्यत्वेन कफप्रकोपं निवर्तयति, पित्तप्रकोपं च कुरुते । पवनप्रकोप निवृत्तिं च कुरुते । शुण्ठी रास्ना कर्णग्रन्थिः चव्यं मूलकं तमालपत्र अर्धकं लशुनं हिन्गु एतानि कटुरसद्रव्याणि भवन्ति । पवनप्रकोप1 एतत्सूत्रात्प्राक् 'होनाधिकतिक्तरसः पित्तपवनं हन्ति । कफं कुरुते । ' इति A. B. कोशयोरधिकः पाठः, For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy