________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पत्रमप्रश्नः
207
एकरसजातीयद्रव्यत्वात् । तस्मात्पवननिवर्तकत्वमेव सुप्रसिद्धमिति तात्पर्यम् ।
लवणरसवहव्यस्यापि तथात्वादित्यत आह- लवणेति । लवणं पवनं हन्ति । कफपित्तकरणम् ॥ ६ ॥
तिक्तोषणकषायरसप्रतेिरेवाभावात् क्षारवद्दव्यत्वाञ्च पित्त प्रकोपकारकं भवतीत्यर्थः ।।
ननु लवणरसस्य पवनप्रकोपकारकत्वं वक्तुमुचितम् । कफप्रकोपकार कमिति वक्तुं नोपयुज्यते । क्षारद्रव्यत्वाञ्च पवननिवर्तकं भवेदित्यस्वरसादाह--हीनेति ।
हीनाधिकलवणरसः कफपवनं हन्ति पित्तं कुरुते ॥ ७॥
खादुरसगुणवद्रव्यजन्यरसः लवणरसः हीनलवणरसो भवति । ततोऽधिकलवणरसः सिन्धुदेशोद्भवलवणरसः अम्लरसाधिक्यद्रव्यजन्यत्वात् । बडवानलसंयोगवजलजन्यलवणरसद्रव्यत्वात्कफनिवर्तकत्वं ब्रमः ।
नभ आदित्यभूतशरीरजन्यतिक्तरसस्य कफदोषप्रकोपनिवर्तकत्वं वक्तुं नभोऽनिलद्रव्यजन्यत्वादेव तिक्तरसस्य पवनप्रकोपकारकत्वं कफपित्तरोगनिवर्तकत्वं च व्याचष्टे--तिक्त इति । तिक्तः कफपित्तं हन्ति मारुतं कुरुते ॥८॥
तिक्त इति नभोऽनिलभूजन्यतिक्तरसः आकाशस्य निरव. यवद्रव्यत्वात, वायोश्च निरवयवद्रव्यत्वात् उभाभ्यां जातशरीरं तिक्तरसवद्भवति । तिक्तरसद्रव्यादनं कफप्रकोपनिवृत्ति करोति । यत्प्रतिपादितं तत्सर्व सम्यगेव प्रतिपादितम् ।
For Private And Personal Use Only