________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
206
आयुर्वेदसूत्रे
___ सूत्रस्थानवचनस्यापीदमेव तात्पर्यम् । तथाहि अव्यभिचरितत्वं व्याप्तेरवच्छेदकम् । यत्र स्वादुरसवत्त्वं तत्र पवननिवर्तकत्वं इत्येवमाकारेण व्याप्तिग्रहानन्तरं अनुमितो प्रवृत्तिः । इक्षुकाण्डस्थितस्वादुरसः पवनप्रकोपनिवर्तकः, जलभूम्यात्मकावयवग्रस्तत्वात् उर्वारुकफलरसवत् । एतदनुमानेनापि एकस्वादुरसस्य पवननिवर्तकत्वं वक्तुं शक्यत एवेत्यर्थः।
ननु आम्लरसवद्रव्ये कालपाकवशात् माधुर्ये जाते सति स आम्लरस एव भवति । विरसद्रव्यादनं विकारकारकम् । तद्वदेव द्विरसवट्रव्यमिति वक्तुं शक्यते । स पवननिवर्तकरस: कथं स्यादित्यस्वरसादाह-मधुरेति । ___ मधुरातिमधुरं क्रमाद्वातपित्तघ्नौ कर्फ कुरुतः ।।
मधुरत्वं नाम मधुररसवव्यातिरिक्तस्वादुरसबद्रव्य पवननिवर्तकम् तत्कालवशात् मधुरीभूतं भवति । तत्स्वादुरसवद्रव्यं पित्तप्रकोपनिवर्तकं, तद्विरसवद्रव्यं न भवति । एकरसजातिविशिष्टद्रव्यत्वात् एकरसद्रव्यमेवेति । आम्लरसवदव्यत्वजातिविशिष्टद्रव्यं कालपाकजोपाधिकं मधुररसवहव्यं भवतीति यदा प्रतीयते तदा तद्विरुद्धरसवव्यं न भवति, तद्योग्यकालातीतद्रव्यभावद्रव्यत्वात् । तत्र विरसवव्यातीतकालत्वमुपाधिरितिमधुररसवदव्यं तस्मादेवातिमधुररसवदव्यं पित्तप्रकोपनिवर्तकं भवतीत्यर्थः । आम्लरसवदव्यजातिावाशष्टेकरसवव्यस्य पवननिवर्तकत्वमात्रे चरितार्थत्वात् पवनव्यतिरिक्तदोषनिवर्तकद्रव्याभावद्रव्यत्वात् इत्यत आह-आम्लेति ।
आम्लात्याम्लौ च तथा ॥५॥
आम्लरसजातिविशिष्टद्रव्यस्य पाककालवशात् अत्याम्लरसे जाते सति तस्य अन्यदोषनिवर्तकत्वं वक्तुं न शक्यते ।
For Private And Personal Use Only