SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पश्चमप्रश्नः Acharya Shri Kailassagarsuri Gyanmandir 203 तुभूतम् । अतो दोषादेः ज्ञानमावश्यकमिति । दोषादिविज्ञानं विना तत्तदामयानां निर्णेतुमशक्यत्वात् । तथाहि स कीदृशो वायुः ? कुण्डलिनीस्थित श्वासोच्छवासरूपमुपपन्नस्सन् द्विविधप्रकारको भवति । स एव वायुः प्राणापानव्यानोदानसमानभेद: उपाधिभेदात्पञ्चविध उपहूयते । स एव वायुस्सर्व सराभ्यन्तरगतस्सन् तत्तत्पद्माधिष्ठित सर्ववर्णानादृत्य ताल्योष्ठपुटव्यापाराघट्टनात् जातपवनस्य उपाधिभेदवशात् तत्तत्पवनगतिशक्तया सर्ववर्णान् तत्तत्पद्ममवगम्य तत्तत्पद्मास्थितवर्णसमूहात्मकशब्दं श्रोत्रप्रदेशं गमयन् तत्तच्छन्दार्थाविषयकशानजन्यज्ञानं करोति । यत्र यत्र विरसद्रव्यादनादजीर्णे जाते सति अनिलात्मक श्वासोच्छवालगतिः सिरारन्ध्रमार्गमुपगतस्य पवनस्य विकारगति करोति । यत्र विकारगतिज्ञानं तत्र तदतिवेदनाविषयकम् । तत्तत्सिरागतपवनः तत्तत्पद्मपर्यन्तं विरुद्धगत्या वर्णग्राहकश्चेत् तद्वर्ण श्रोत्राव. वरमुपेतं परग्राह्यं यदा भवति तदा विवर्णशब्दात्मकपदं श्रूयते । यावद्वर्णग्राहक पवनमभ्युपेत्य दोषमार्गमुपगम्य पवनश्चरति, तदा समस्तदोषा असमर्था भवन्ति । स एव वायुः विरसादनादजीर्णे जाते सति अल्पमल्पं चरति । सोऽसमग्रगतिरिति । तेषां पवनानामन्येषां संकरगतिर्यत्र दृश्यते स एव रोगो भवतीत्यर्थः । ननु दोषत्रयनिरूपणे धातुपोषकप्रतिपादकशास्त्रं न प्रतीयते । ते दुष्टास्सन्तः धातुदूषका भवन्ति । ते तु अदुष्टाश्चेत् यथापूर्वमनतिक्रम्य स्थित्युपकारका भवन्ति । अतो दोषनिवारणेन किं फलं लभ्यत इत्यस्वरसादाह - यत्रेति । यत्रस्था ये रसास्तत्तदुद्भूतजातास्ते धातुपोषकाः ॥ यत्र यावद्भूताधिक्यजातयावद्दृश्यादनं तत्तद्भूताधीनतत्तन्निवर्तकधातुपोषकम् । यावदुद्भूतभूरुहरसा: यावदुद्भूतभूतजातधा For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy