________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
204
आयुर्वेदसूत्रे
तुशोषकपोषकाः यावदुद्भूतभूरुहविरसादनजातरोगनिवर्तकतत्सजातीयरसवद्दव्यत्वात् । यावदुद्भतभूरुहजातरसात् तदितरशरीरभूताधीनधातुशोषकरुनिवर्तकं भेषजं, इत्यनुमानरचना कार्यहे. तुकव्याप्तिग्रहवशात् तन्निवर्तफनिवर्त्ययोः व्याप्तिग्रहे सति सर्वत्राप्युत्तरत्रापि तथा वक्तुं शक्यत्वादित्यर्थः ।
ननु दोषप्रकोपनिवृत्तिद्वारा रसादीनां धातुपोषकत्वं वक्तव्यम् । यावद्भतनिष्ठरसाः यावद्भतावयवजन्यरोगनिवर्तका इति पूर्वसूत्रे प्रतिपादितम् । तच्चिन्त्यम् । केचिद्रसाः धातुपोषकाः, केचि. द्रसाः धातुदूषका इति वक्तुं शक्यते । विरुद्धरसादजीणे जाते सति तत्तद्विधिचोदितरोगा आविर्भवन्ति । ते तु दोषानुगतास्सन्तः धातुगताश्चेत् तेषु तद्विकारा आविर्भवन्ति । यदा अवि रुद्धरसादनेन दोषा अदुष्टास्सन्तः धातूनामविकारं कुर्वन्ति, शुद्धदोषाश्च धातून प्राणांश्च संरक्षन्ति । ते तु दुष्टाश्चेत् धातुप्राणेन्द्रियघातका भवन्ति । रसादीनं दोषप्रकोपकारकत्वं दोषप्रकोपनिवर्तकत्वं च वक्तुमुचितम, इत्याशयं मनसि निधाय षड्रसानां च तत्तद्गुणान् वर्णयति--द्वीति ।
द्विरसार्थरसहीनार्थहीनरसवाननिलनिवारकः॥
द्विरसार्थ इति स्वावम्ललवणाविशिष्टद्रव्यं पवनप्रकोपनिवर्तकम् । स्वादुरसवव्यं पवननिवर्तकं न भवति, इक्षुरसकदळीफलनारिकेलतालफलेषु च व्यभिचारात् । स्वादुरसव. त्वं आम्लरसवत्त्वं च यस्मिन्द्रव्ये यदा प्रतीयते तत्र तद्सवद्विशिष्टद्रव्यं पवननिवर्तकं भवतीत्यर्थः । केवल लवणरसवद्व्यं पवनानवतकं न भवति, ऊपरभूमिजन्यलवणरसस्य पव.
For Private And Personal Use Only