________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थप्रश्नः
201
• कम् । नीरोगशरीर सर्वानन्दहेतुकम् । आनन्दज्ञानहेतुकम् । शब्दस्पर्शरूपरसगन्धाः आत्मविषयज्ञापकाः इन्द्रियाधारभूतत्वात् । यनैवं तन्नैवं यथा घट इति । इदं नीरोगशरीरं योगधारणसाधनम् , तत्त्वज्ञानमनोविषयकात्माधिष्ठितशरीरत्वात् चैतन्याधिष्ठितशरोरवत् । सर्वपदार्थतत्त्वज्ञानं मोक्षहेतुकं, हेयार्थोपायव्यतिरिक्तोपादेयज्ञानहेतुकत्वात् । इदं नीरोगशरीरं सर्वपदार्थज्ञानानुभवपूर्वकं रोगनिवर्तकद्रव्यादनसाध्यज्ञानपूर्वकत्वात् । आयुर्वेदचतुःप्रश्नप्रतिपादितार्थः एतदनुमानचतुष्टयाधीनः उक्तशास्त्रप्रतिपादितार्थशानपूर्वकत्वात् ॥
इत्यायुर्वेदस्य चतुर्थप्रश्नस्य भाष्यं योगानन्दनाथकृतं सुप्रसिद्ध महाजनसम्मतं लोकोपकारकं प्रतिसूत्रव्याख्यानपूर्वकं आयुर्वेदभाष्यं
सम्पूर्णम्.
A VIRVINA
For Private And Personal Use Only