SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 200 आयुर्वेदसूत्रे ननु श्वासोच्छासानिलात्मककुण्डल्याधारभूतकटिप्रदेशगतपनं सर्वप्राणाधारकं शिरस्स्थितामृतप्रवाहालचालोपजीव्यरूपत्वात् अमृतप्रवाहालवालपरिपूर्णकार्यहेतुभूतत्वात् । तस्माद्योगधारणवशात् धातुपोषणं भवेदित्यस्वरसादाह-कटीति। . काटप्रदेशगतं कायाधारकम् ।। ६५॥ कटिप्रदेशगतं पद्मं चतुस्सिरावृतं ओवर्णोत्पादकभूतपाणिपादाभ्वां चलनात्मककार्यहेतुभूतत्वेन गतागतोपायकार्यकारकयाथात्म्यकत्वात् तदेव शरीरधारकं भवतीत्यर्थः । न तु प्राणा. धारहेतुकपवनमात्राधारकत्वात् सर्ववर्णाधारकपद्मवत् । ननु आयुर्वेदार्थज्ञानं चतुर्विधपुरुषार्थसाधकयोगधारणकार्यहेतुकं ईश्वरसाक्षात्कारानुभवस्य हेतुभूतत्वात् । ईश्वरस्सुप्रीतो भूत्वा तस्य मनोवाञ्छादिकं फलमेव ददाति । तस्माद्योगसाधनं विहाय तत्तद्विरसद्रव्यादनेन तद्धेतुभूतामयान्सम्पाद्य त. निवर्तककार्यकारणेन किमधिकफलं लभ्यत इत्याह-नाभेरिति । नाभेरधस्स्थितं कुण्डल्यादिभूतं पञ्चसहस्त्रसिरावृतं शतदळपद्मं प्रजायते ।। ६६ ।। ____ नाभेरधास्स्थतं जठरानलपमं तयोर्मध्यगतं भवति । तत्पश्चसहस्रसिरावृतम् । सर्ववर्णाधारकपद्मानामादिभूतम् । सप्तधात्वाधारात्मकम् । पञ्चभूतात्मकं च । तच्छतदळपनं अविरुद्धरसद्रव्यादनेन अविकारं भूत्वा तत्तत्तारद्रव्यैः शिरःकमलस्थामृतं मुहुर्मुहुः प्रजनयत् वर्तते । विकाराभाववत्पवनगत्या तच्छतदळपद्मसन्तर्पणेन सप्तधातवः पुष्णन्ति । रसायनादनेन वा, रोगधारणाद्वा, पथ्यान्नादनन वा, शरीरमविकारं कुर्वत् बहुकालजीवनं लभ्यत इत्यर्थः। अतश्शरीरसंरक्षणमेव सर्वपुरुषार्थसाध For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy