________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
190
आयुर्वेदस्त्रे
तस्माद्यबुद्दिश्य प्रवृत्तिः ईश्वरप्रीत्यर्थ पुरुषार्थोपकारिका जगद्रक्षणार्थ तावुभौ स्थावरशरीराण्यभूताम् । जङ्गमशरीराभिवृद्धिं कुरुतः । तावुभौ अभिवर्धते । स्थावरमूलसारमूलत्वक्तारकन्दसारसारत्वक्सारक्षीरसारपुष्पसारफलसारनिय ससारक्षरिसारकाः अस्थिसारमजासारकाः । काण्डसारकाः । सर्वे से पञ्चदशसाराः स्थावरशरीगः। ततव्याधीनां तत्तत्सारभेदा निवर्तका भवेयुरित्यर्थः।
ननु सर्वशरीराणि पाश्चभौतिकानि । शब्दस्पर्शरूपरसगन्धानां आकारादिगुणत्वात् तद्गणव्यतिरेकेण तेषामवस्थानस्य वक्तुमशक्यत्वात् तद्गुणिनमन्तरण तद्गुणाभावस्य सत्त्वात् एतसाराणां व्याधिनिवर्तकत्वं कथं भवेदित्यस्वरसादाह-पार्थिवेति । . पार्थिवावयवाधिक्योपलब्धिर्यत्र तत्सारकं पार्थिवगुणम् ॥ ५४॥
आम्लरसस्सुगन्धश्चोभयमपि पृथिवीगुणो भवति । गन्धवत्त्वं पृथिव्या अवच्छेदकत्वम् । आम्लरसवत्वं गन्धवत्त्वं च युगपदेवोपलभ्यते । तत्तदङ्गमेव तत्तद्वयाधिनिवर्तकं भवति । तथा हि-पुष्पेषु अधिकगन्धोपलब्धिः । तत्पुष्पसारद्रव्यमिति विज्ञेयम् । ननु अर्कवृक्षस्य क्षीरसारद्रव्यत्वात् तावन्मात्रमेव प्रयोजनं न भवति । तत्पत्रस्यापवनानवर्तकत्वम । तन्मूलत्वचोऽ. पि पवनदोषप्रकोपानिवर्तकत्वम् । तत्पुष्पाणि क्रिमिरोगनिवर्तकानि । इत्यस्य वृक्षम्य सारत्रयमुपलभ्यते । तत्र मूलसारपत्रसारयोस्सारवत्त्वेनोपलभ्यमानत्वात् तत्सारौ अनुभवैकवेद्यौ भवतः। तत्क्षीरं यावदङ्गेनोपलभ्यते तत्प्रयोजनकार्यस्य क्षीर
नैत A&B कोशयोरस्ति.
For Private And Personal Use Only