________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थप्रश्न:
189
___यज्ञस्य शिरोऽच्छिद्यत । ते. देवावश्विनाब्रुवन् भिषजीवै स्थ इमं यज्ञस्य शिर प्रतिधत्तम्" इत्यनुवाकस्य तात्प. ये शस्त्रधारणं ब्राह्मणानामयोग्यं, इयं शस्त्रचिकित्सा यावद्भाह्मणानामयोग्यात, चिकित्साभेदे निषेधितम् । तस्मात् शस्त्र चिकित्सा न कार्या । शुदैरेव कारयितव्या। तत्रापि तत्तच्छास्त्रप्रतिपादितसिरादिभेदं विज्ञाय शूद्रैरेव कारयितव्या इत्यस्य य उपदेष्टा स एव कर्ता। अस्यापि सैव श्रुतिः प्रतिपादिका"तयोस्त्रेधा भैषज्यं विन्यदधुरग्नौ तृतीयं अप्सु तृतीय ब्राह्मणे तृतीयम् । तस्मादुदपात्रमुपनिधाय ब्राह्मणं दक्षिणतो निषाद्य भेषजं कुर्यात् ' इति विधेः विद्यमानत्वात् । एवमागमशास्त्रे प्रतिपादितम्
“दीर्घ तीव्रामयानां भिषगिव कौशलं नो धातुमायातु शौरिः ।"आपद्स्तानां त्रातुं चिकित्सा कार्येत्यर्थः । अत एव सर्वसुखसाधकमित्युक्तम् ।
ननु यदुद्दिश्य प्रवृत्तिः ईश्वरप्रीत्यर्थमुपकारिका भवति सा सर्वफलप्रदायिकेति वक्तुं शक्यते । . अत्र तु चिकित्साकार्यप्रतिपादकोपकारकद्रव्यत्वादेव एतेषां शाखिनां चतुर्विधपुरुषार्थफलप्रदानप्रतिपादकत्वं कथं स्थादित्यस्वरसादाह-प्रकृतीति ।
प्रकृतिपुरुषयोरैक्यं भवति ॥ ५३ ॥
सर्वदा प्रकृतिपुरुषो फलोपकारको। सर्वेषां प्राणदौ भवतः । तथा च श्रुतिः-'अन्नं ब्रह्मति व्यजानात् । अनाद्धयेव खल्विमानि भूतानि जायन्ते । अन्नेन जातानि जीवन्ति । अनं प्रयन्त्याभिसंविशन्तीति । तद्विज्ञाय।" इति श्रुतिरेवात्र प्रमाणम् ।
For Private And Personal Use Only