SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 188 आयुर्वेदसूत्रे सर्वपदार्थानां चाक्षुषप्रतीतिविषयत्वादेव सर्वपदार्थानामपि सुखानुभवविषयत्वस्य वक्तुमशक्यत्वादित्यस्वरसादाह-सर्वार्थानामिति। सर्वार्थानां हेतुभूतानां सर्वसुखसाधकम् ॥५२॥ सर्वार्थानामिति-- "समिधो यजति । वसन्तमेवर्तनामवरुन्धे । तनूनपातं यजति ।" इत्यनुवाकस्य स्वर्गसाधकयागानुष्ठानहेतुभूतत्वात् धर्मविषयप्रतिपादकत्वमित्युक्तम् । फलितार्थस्य आदिरूपेण फलविषयकार्थप्रतिपादकत्वात् पदार्थरूपपुरुषार्थप्रापकद्रव्यत्वात् “पु रुषार्थोऽयमिति फलितपुष्पफलानां हेतुभूतत्वात् कामनाविषयकत्वादेव तृतीयपुरुषार्थस्य हेतुभूतत्वात् सर्वशास्त्राभिज्ञस्य धर्मज्ञस्य हस्तकौशल्यादिज्ञानवतः सर्वदा परोपकारशीलस्य पण्डितस्य विप्रवर्णभेषजस्य आयुर्वेदार्थशानद्वारा चिकित्सकस्य मोक्षप्राप्तिहेतुभूतत्वात् चिकित्लित मोक्षहेतुर्भवति । तस्य श्रुतिरेव प्रमाणप्रतिपादिका। तथा हि "अश्वत्थे वो निषदनं पणे वो वसतिष्कृता। गोमाज इत्किलासथ यत्सनवथ पूरुषम् ॥ यदिमा वाजयन्नहमोषधीहस्त आदधे । आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा ॥ यत्रौषधीस्समग्मत राजानस्समितामिव । विप्रस्स उच्यते भिषग्रक्षोहामीवचातनः" ॥ ऋग्वेद. १०, ९७, सू. इति श्रुतेर्विद्यमानत्वात् चिकित्सितस्य विप्रस्यैव मोक्षप्राप्तिहेतुभूतार्थत्वात् तच्छाखाग्राणां चतुर्विधपुरुषार्थप्रापकत्वस्य वक्तुं शक्यत्वादित्यर्थः । For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy