________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चतुर्थ प्रश्न:
Acharya Shri Kailassagarsuri Gyanmandir
णामपि अग्रशाखं तदेव । शिरश्शिखामूलात्मकत्वात् शाखानाणि प्रवर्तन्ते | कमलानामादिभूत मूलाधारकत्वलक्षणस्य स्थावराणामपि सत्त्वादित्यस्वरसादाह - तिकेति ।
तिक्तोषणरसप्रदानजन्यमेदोमज्जाधारकदशदलपद्मं सहस्त्र सिरादागतामृतं तत्र सिञ्चति ॥ ५० ॥
शाखाङ्कुरादयः तिक्तोषणरसप्राधान्येन जायन्ते । अङ्कुरप्रादुर्भावसमये तिक्तरसो वा ऊषणरसो वा यावदुचितसारः प्रतिभाति तत्तदङ्कुरस्य मेदोमज्जाधारकत्वात् अङ्कुरादिकमेव दशदळपद्मं मूलाधारकं च तदेव भवति उभयोरपि कदाचि दूबीजावापकत्वस्य दृश्यत्वादित्यर्थः ।
2
187
ननु मनुष्याणामिव कुण्डलिनीशक्तेरभावात् इडापिङ्गलानुसरितत्वात् श्वासोच्छ्रासाभावेन तद्वशादेव अमृतावसेचनं शाखिशरीरस्य अयोग्यमित्यस्वरसादाह - इडेति ।
इडापिङ्ग लागतामृतं सिञ्चति ॥ ५१ ॥
तत्पत्रचलनमेव शाखिनां श्वासोच्छ्वासौ भवतः । शाखायं दशदळपद्मात्मकं सुरूपत्वात् । सुलावण्यात्मकत्वात् । चक्षुरिन्द्रियविषयसुखज्ञानानुभवरूपविषयकत्वात् । तच्छाखाग्रवर्तिदशदळपद्मं चक्षुरिन्द्रियविषयकं सुखानुभवविषयस्वरूपत्वात् । शाखिनां तत्पद्ममेव पोषकं भवतीत्यर्थः ।
ननु शाखाग्राणि सुरूपाणि सुलावण्यानि सुकुमाराणि, चक्षुःप्रतीतिविषयसुखानुभवविषयहेतुभूतत्वात् इति यदुकं तश्चिन्त्यं,
नैतत् B. कोशे दृश्यते.
2 नेतत् A. & B कोशयोर्दृश्यते,
For Private And Personal Use Only