________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
186
Acharya Shri Kailassagarsuri Gyanmandir
आयुर्वेदसूत्रे
1
त्मकाः, पुराणादी तथा प्रतिपादितत्वात् । अन्ययुगादौ प्राणा. दिपञ्चवायूनां अस्थिगतत्वात् तत्काले शब्दा वर्णाश्मका भवन्ति । सर्वशरीराणां सात्मकत्वादेव तथा वक्तुं शक्यते । जीवच्छरीरं सात्मकं प्राणादिमत्त्वात् इत्यनुमानेन प्रमाणेन यानि यानि शरीराणि सात्मकानि तानि सर्वाणि प्राणात्मकान्येव | कलियुगकालग्रस्त शरीरादिगतप्राणादिवायवः रसासृग्धातुगताः । तदन्ययुगकालग्रस्त शरीराधिष्ठितप्राणादिवायवः अस्थिगता भवति । एतयुगकालग्रस्तानि शरीराणि अधर्मात्मकानीत्यत्र अधर्मत्वमुपाधिः ।
ननु शरीरत्वावच्छेदेन सर्वशरीराणां प्राणादिमत्त्वादेव शरीरत्वावच्छे एकस्य स्थावराणामपि सत्त्वात् तेषामपि शब्दोच्चारणत्वप्रसंग इत्यस्वरसादाह - षडिति ।
कमलानामादिभूतं मूलाधारकम् ॥ ४९ ॥ षट्कमलाधिष्ठित शरीरत्वं येषामस्ति तेषां शब्दोच्चारणेऽपि सामर्थ्यमस्ति । तथा न स्थावराणां पादपद्मावच्छेदकं भवति । जङ्गमशरीराणां शिरःकमलस्थामृतसारवत्पोषकत्वस्य तेषामवच्छेदकत्वात् । तत्सहस्रारपद्माधिष्ठितशीर्षवत्वात् शिरःकमलस्थामृतवत्त्वं शरीरपोषकम् । तत्स्थावरशरीराः पादपा इति । तस्मात्तेषां मूलाधारपद्मं षट्कमलात्मकं न भवति । सर्वेषां शरीरत्वावच्छेदकत्वस्य साधारणत्वेऽपि येषां शरीराणां मूलाधापद्मं षट्कमलात्मकं तेषां शरीराणां शब्दोच्चारणत्वस्य योग्यत्वादित्यर्थः ।
ननु स्थावराणामपि मूलाधारपद्मं दशदळात्मकं तिक्तोषणरसात्मकं तदेव । तदेव शिरःकमलस्थं समांसमेदोधात्वात्मकम् । तत्र मनुष्याणां सहस्रारपद्मं तत्तच्छिरसि प्रतिभाति । स्थावरा1 नैतत् B. कोशे दृश्यते.
For Private And Personal Use Only