________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
182
आयुर्वेदसूत्रे
साकं हलादयः कार्यकारका भवन्ति । पित्तदोषामिमान कुक्षिस्थिततत्तत्पद्मस्थितवर्गपञ्चकवर्णानां तत्तत्सिरागतपवनः स्वाभिमानभूताज्वान् यथाविधि शास्त्रप्रतिपादितार्थान् बोधयितुं स्वरसहितहलादीन् सिरास्यदोषगतिजातशब्दः कर्णयोः प्रपद्यत इति । पित्तप्रदेशपद्मस्थितवान् पवन एव प्रापयतीत्याह-तिक्तेति ।
तिक्तरसाभिवर्धितं मेदोधातुस्थितदशदलपञ कटिप्रदेशगतम् । सहस्रसिरादागतामृतं तस्य त. पोषकम् । तिक्तरसाधिककफप्रदेशामृतं तत्र दो. पजन्यम् । पिङ्गलामार्गादागतपवननिरोधनं सुभेषजं सुपोषकम् ॥४४॥
तिक्तरसद्रव्यादनसंस्कारजन्यगुणाः तत्तद्विरुद्धादनरसजन्य' रोगवशात् स्वस्थोच्चारणाधीनवर्णात्मकपदसमूहवाक्य श्रवणं तत्तत्पद्माधिष्ठितरोगविज्ञानहेतुकं भवति। ताल्वोष्ठव्यापाराधीनवोंञ्चारणहेतुभूततत्तत्पद्मस्थितरोगजनकसामग्रथा यावद्धीनवर्णोच्चारणजन्यवर्णाकारं विज्ञाय कफविकारहेतुकस्वाद्वम्लरसवद्दव्याधिक्यादनजन्यकफरोगस्य तन्निवर्तकामृतं पिङ्गलामार्गादागत. पवननिरोधनजन्यामृतं सुभेषजं भवतीस्यर्थः।
हीनवर्णोच्चारणहेतुकतद्रोगस्य तन्निवर्तकद्रव्याभावेऽपि बहिः पवनरेचनं तत्पूरणं च निवर्तकं भवतीत्याह-बहिरित।
बहिः पवनं रेचयेत् तमेव पूरयेत ॥१५॥ अस्य फलमाह । तस्मादिति
1 तत्र सेचयेत्---A, तत्र सेवयेत्-B.
For Private And Personal Use Only