________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चतुर्थ प्रश्नः
Acharya Shri Kailassagarsuri Gyanmandir
66
निवर्तक स्वादुरसवद्दव्यत्वात् पादपद्माधारकजङ्घापद्माधिष्ठिताज्य र्णानां आधारो भूत्वा स एव सुगतिकारकस्सन् तत्तपद्मानि तत्तदधिष्ठितवर्णानि च सहस्रारपद्मगतामृतं सहस्रसिराभ्य आहृत्य ततद्वर्णाधारकपद्ममाप्लाव्य तत्तद्वर्णानुभवज्ञानद्वारा पैकारज्ञापक पवनः तस्य पोषको भवति । तिक्तरसाभिवर्धितपित्तदोषः नाभेरधस्स्थितदशदळपद्मं स्वाधारं कृत्वा पवनहृतामृतं स्वाधिष्ठानभूतं दशदळपद्ममाप्लाव्य हलादिव र्णानां श्रोत्रप्रदेशं प्रापयन तिक्तरसः मांसमेदोधातुपोषको भ वर्तीत्यर्थः
1:1
ननु अत्रस्त स्वरः सन्तः सरन्ध्रकाभ्यन्तरधरसिरामार्गेभ्यः श्रोत्रप्रदेशं प्रसरन्तः स्वराश्श्रूयन्ते । पादपद्ममारभ्य बीजपार्श्वपद्मपर्यन्तं पवनस्थानमिति । अत एव चलनात्मकं कर्म कुरुते । जङ्घाभ्यां पद्भ्यां धर्मोऽस्मीति शरीरापगमागमौ भवतः । तदेवं चलनात्मक गतागतभेदं पवन एव कुरुते । तेनैव स प्रचरति । बीजपार्श्वपद्ममारभ्य हस्तपद्मपर्यन्तं कचटतपवर्गपञ्चकस्य तत्त पद्माधिष्ठितत्वात् । सरन्ध्रकाभ्यन्तरगत पवनस्तु स्वाभिमानप झेषु स्थित्वा अचां वर्णानां तत्तद्वर्णसन्ध्युच्चारणार्थे सुपदप्रयोगोचारणार्थं तत्पदसमूह वाक्योच्चारणार्थ स्वाभिप्रेतार्थबोधनार्थे पदवाक्यप्रयोगव्यतिरेकेण स्वस्यापरस्य बोधयितुमशक्यत्वात् । तस्मादभिः साकं हलादयः स्वाभिप्रेतार्थं परेषां विबोधयितुं शक्नुवन्ति । अत एव शब्दशास्त्रे वैयाकरणैः प्रथमत एव प्रतिपादितं
७ु
181
'वृद्धिरादैच्, अदेङ् गुणः, इको गुणवृद्धी' एतत्सूत्रत्रयस्यार्थे महाभाष्ये सर्वे प्रपञ्चितम् । तत्र यत्प्रतिपादितार्थं अज्भिः
For Private And Personal Use Only
77