________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थप्रश्न:
183
तस्माञ्चिरायुर्भवति॥ १६ ॥
ननु एतत्सर्व न संसृज्य घटते । तल्वोष्ठपुटव्यापारसामग्रयां सत्यां वाञ्छितार्थः श्रोत्रप्रदेशगतशब्दजनितवाक्यश्रवणेन तत्पदार्थः वाक्यविषयो भवति । न तत्पद्माधिष्ठितवर्णसिराभिरेव ज्ञायते, गौरवात् । “यद्धि मनसा ध्यायति तद्वाचा वदति, तत्कर्मणा करोति" इति श्रुतिरेवात्र प्रमाशापेका । फिंच "अकुहविसर्जनीयानां कण्ठः । इचुयशानां तालु । उपूपध्मानीयानामोष्ठौ । ऋटुरषाणां मूर्धा । लतुलसानां दन्ताः' इत्यादिवार्तिकवचनानां विद्यमानत्वात् तत्तत्पन्नाधिष्ठितवर्णान् श्रोत्रप्रदेशं प्रापयितुं तत्तत्सिराणां तत्सामायभावादित्यस्वरसादाह-चन्द्रेति ।
चन्द्रकलायतमरुत्प्रचोदितपद्मं मुकुलीभवति । सूर्यकलागतपवनाद्विकसति ॥ १७॥
चन्द्रकला ताल्वोष्ठपुटव्यापारसामग्रयां सत्यां चन्द्रस्वरादागतपवनेन मुकुलीभवति। एतद्वर्णोत्पादकताल्वोष्टपुटव्यापारसामग्रीजन्यपवनात्सरन्ध्रकाभ्यन्तरधरसिरामार्ग प्रविश्य तत्तत्पन्नाधिष्ठितवर्णान्गृहीतुं तत्पद्ममुकुलीभाव एव कारणं भवतीति तत्सर्वं मनसि निधाय तत्तद्वयाधिनिदानं पूर्वस्वराद्विकृतस्वराः, तत्पद्माधिष्ठितरोगविज्ञानहेतुत्वात् इत्यत्र प्रमाणं वर्णोच्चारणश्रवणशानानुभव एव । तदशानं कीदृशमित्युक्ते अनुभवं पृच्छेत् न तद्बोधयितुं शक्यम् । क्लिष्टोचारणं यदा क्रियते तस्य बीजपार्श्वस्थानत्वात् तद्वयापारजनकपवनस्तत्सिरामार्गे सञ्चरन् कव
1 स्थिरत्यर्भवेत् ---B.
For Private And Personal Use Only