________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
178
आयुर्वेदसूत्रे
गतरूपानुसारिवैचित्र तजन्यपटवैचित्रयं करोति। कारणगुणा हि कार्यगुणानारभन्ते । यावत्मिारासस्पर्शनं तावत्सिराधारकपद्मगतविकारकारक, तदन्यरोगकार्यहेतुकत्वे सति तद्धे तुकत्वात् यन्नै वं तन्नैवमिति । पाण्डुशोभविसर्पकुष्ठरक्तवातामयानां आमपितरूपविसंसर्गविशिष्टसिराणां नानारुपकार्यजनकत्वं सूच्यते ।
आमपित्तसारस्य एकत्वेऽपि तजनकद्रव्याधिक्यं कारणतावच्छेदकं भवतीत्यर्थः ।
ननु सर्वशरीरव्याप्यपवनप्रकोपे सति तत्संचारयोग्यधातुसोपो जायते । शोषण कार्यकारकरूक्षगुणद्रव्यत्वात् अनन्तावच्छेदकं रूक्षगुणवत्त्वधातुशोषककार्यकारकत्वं प्रथमत एव प्रति प्रतिपादितम् ।
तत्र रूक्षो लघुश्शीतः खरस्सूक्ष्मश्चलोऽनिलः ॥ इति..
तस्मात्पवनविकारमात्रेण आमपित्तरससारस्य एकदशस्थितत्वा { सर्वधातुशोषणं कर्तुं न शक्यत इत्याशयं मनसि निधाय पवनविकारं प्रतिपादयति-त्रिसहस्रति । त्रिसहस्रसिराहेतुकं मधुरीभूतं ज्वलयति॥३८॥
धातुप्रदेशवातपद्माधिष्ठितावर्णोच्चारणसामग्री विस्वरप्रतिपादिका यदि भवेत्तदा पवनप्रकोपकारकमधुरीभूतद्रव्यादनजातपवनविकारकार्यहेतुत्वात् स्वाद्वम्ललवणरसबद्दव्यधातुप्रदेशवातपद्माधिष्ठितावर्णोच्चारणसामग्री विस्वरप्रतिपादिका याद भवेत्तदा पवनप्रकोपकारकमधुरीभूतद्रव्यादनं पवनरोगप्रागभावपरिपालनकारकास्तास्सिरास्त्रिसहनसंख्याकाः पादपनाधारकाः ता
1 ज्वरति' इति A. कोशे.
For Private And Personal Use Only