________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थप्रश्नः
177
र्गवशात् पवनामयाः प्रवर्धन्ते । तजनकामशोषे सति तन्निवर्तते । तावद्विरसादनादजीर्णादामप्रवृद्धौ सत्यां रसास्यांसगतसिरासंस्पर्शनाद्यत्र पवनविकारो जायते स आमपित्तसारः आमाशयं प्रविश्य हत्कमलप्रवेशनात् विषसंसर्गवत् यावद्रोगहेतुकं तावद्वात्वन्तर्गतसिरासंस्पर्शनात् तद्धातून्सन्दूष्य रसासृनांसदोधातवः दूषितास्सन्तः क्रमात्पाण्डशोफविसामयाः प्रवर्धन्ते । सुतरां मेदोधातुविकारे सति कुष्ठं भवति । स आमापित्तसारः रसासृांसधातून्सन्दूष्य मेदोधातुस्थितत्वात् तावद्धातुसारस्य बहिःप्रदर्शनमेव कुष्ठरोगकारणं भवतीत्यर्थः ।
ननु त्रिसाराधिक्यादनजातरोगास्तु अजीर्णरोगजन्यामया बहवस्सन्ति । तत्कार्यभेदस्य हटत्वात् कारणभेदो वक्तव्यः । आमपित्तसारस्य एकरूपत्वात् शोफपाण्डुविसीमयानां धातुदूषककार्यस्य एकत्वात् तत्र वक्तुं शक्यते । तत्कार्यव्यतिरिक्तकुष्ठरोगकार्यस्य भिन्नत्वादित्याशथ मनास निधाय कुष्ठरोगागमहेतुं वर्णयति--पूर्वस्मादिति। 'पूर्वस्माद्द्विगुणं पृथुतया भाति ॥३७॥
पूर्वधातुभ्यः स्थूलत्वं द्विगुणप्रतीयते । न च तन्तुवद्धातुसारस्तावितरोगस्वरूपत्वात् सिराशौण्डिल्यतया पृथुत्वं भासते । आमपित्तसारस्य यावत्सिरासंस्पर्शनं तत्तद्रोगाणां तत्तत्सिरासंस्पर्शनं कारणं भवति । तथा सति कारणवचित्रयात् कार्यवैचि. त्रयं प्रतीयते । तन्तुगतरूपानुगतरूपानुविचित्ररूपवत्त्वं यावत्तन्तु
___1 एतत्सूत्रात्प्राक् “पवनप्रकोपहेतुकत्रिरसजातरसासृयांसं भगचयप्रदेशगतं भवति" इति A.B. कोशयोरधिकः पाठः. 2 एतत्सूत्र B कोशे नास्ति.
AYURVEDA
For Private And Personal Use Only