________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
176
आयुर्वेदसूत्रे
रससारस्तु उदरपाण्डशोफविसर्पकुष्ठवातरक्तवातविकाराणामेक एव हेतुर्भवति । स एक एव कार्यजनकः । सिरामार्गगतपवनगतिनिरोधनरूपकार्यकारकद्रव्यत्वात् । तत्पवनगतिनिरोधनं एतदामयहेतुकम् । तत्तु क्वचिदङ्गभेदेषु रसासग्दूषणद्वारा त्व. पालित्यं करोति । स पाण्डुरोग इति व्यवहारमात्रभेद उपलभ्यते । तदेव यदा तत्सिरासंसर्गभेदवशात् तत्पवनगतिनिरोधनं मांसधातुशोषकं भवति इतरमांसधातुः पृथुर्भवति । तच्छोभरोग इति व्यवह्रियते । तद्गतिनिरोधनं यदा मेदोधातुदूषकं भवति स मेदस्सारः बहिःस्फोटरूपेण स्फुरणात् पवनविसर्परोग इति ज्ञानं जायते । स आमसारः मेदोधातून् सन्दृष्य तद्वहिर्भूतमांसधातुमावृत्य त्वग्धातुं प्रविश्य बहिस्सर्पति चेत् तत्कुष्ठं भवति । यावत्पवनाधारकसिरा आमपित्तरससारप्रस्तास्सन्तः यावत्पनविकारकार्यकारितत्तत्सिरावर्णविकारं कुर्वन्तीति कुष्ठाः, कुत्सिताङ्गविकरं कुर्वन्तीति कुष्ठाः । पादपद्माधारकसिराहद्गतामापत्तरससारसंस्कारयुक्तसिरा तद्विषसारं सवति । तत्पद्ममापूर्य पादाङ्गुलिभ्यः सवति । तच्छाखानि शीर्णानि भवन्तीत्यर्थः।
ननु रसविरसजन्याजीर्णजन्यामयहेतुकत्वे सति मेदोस्थिमजाधातुगतसिराधारकपद्माश्रितामपित्तरसविषसारजन्यामयहेतुकत्वादिति ब्यतिरेक्यनुमानप्रमाणेन प्रतिपादितामयानां अजीर्णजन्यामानवर्तकसामनयतिरिक्तसामग्रीनिवर्तकद्रव्यत्वात् इति । तस्मालङ्घनतदुपयोगद्रव्याणि निवर्तकानीति आयुर्वेदसूत्रचर्य ध्याचष्टे । पवनप्रकोपहेतुकविरसाज्जातं रसासृङ्मांसचयप्रदेशगतं भवति । स्वाद्वम्ललवणरसाधिक्यादनेन अजीणे जाते सति पषनप्रकोपो भवति । अचां वर्णानां आधारभूतपद्माधारकसिरासंस
For Private And Personal Use Only