________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थप्रश्नः
179
वत्सिरावच्छरिंभवति पवनविगत्याधारकसिराणां तत्तद्गतितिरो. धानकारकद्रव्यं किं वक्तव्यम् ? तत्पवनप्रकोपकारकं भवति । न तावद्धातुशोषकं, किंतु वेदना रोगकार्य भवातीत्यर्थः ।
ननु सर्वद्रव्येषु मधुररसः पवनप्रकोपनिवर्तको भवति । स्थावरजातिस्थितमधुररसः पवनप्रकोपकारकः। जगमादिस्थितमधुररसवद्दव्यं पवनप्रकोपहारकम् । तथाऽपि उभयमपि परमधातु. पोषकम् । स्थावराणां स्वादुरसः रसासृग्धातुविकारकः । जङ्गमानां स्वादुरसः सर्वधातुपोषको भवतीत्याशयं मनास निधाय प्रजाजननहेतुं प्रतिपादयति-प्रजोत ।
प्रजोत्पोदकहतुभूतं भवति ॥ ३९ ॥ .
जङ्गमानां मांससारः पयोविकारो भवति । तत्सजातीयान्यसारोऽपि सर्वशरीराणां धातुरसस्स्वादुरेव भवति । तत्स्वादुरसः प्रजाजननकारकः रेतोधातुविकारहारकद्रव्यत्वात् । खेचराणामण्डजस्वादुरसः पवनप्रकोपहारकः । भूचरशरीरजातक्षीरवि. कारजाताः पवनहरशुक्लधातुपोषका इत्यर्थः । स्थावरद्रव्यानिष्ठमधुररसानामिक्षुकाण्डादिजन्यानां सर्वधातुपोषकत्वं वक्तुमशक्यत्वात्, स्थावररसात्मकत्वात् तनिष्ठस्था दुरसो गुरुर्भवतीत्यस्वरसादाह-मधुरेति ।
'मधुररसादनादसृग्धातुर्भवति ॥ ४० ॥ स्थावरनिष्ठमधुररसादनं जङ्गमशरीराणां रसासृग्धातुप्रवमधुरेति सूत्रात्प्राक् ‘शरीररमसारस्सर्वमावहति" इत्यधिकः पाठः A. B. कोशयो:,
For Private And Personal Use Only