________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
170
आयुर्वेदसूत्रे
क्यान्नादनं वा तदाशयस्थपवनवेगनिरोधनं वा रोगहेतुकामिति वक्तव्यम् । तथा सति सर्वशरीरसंचरितपवनप्रकोपाः विरसविषसंपर्कदोषजा: तत्पवनस्य शरी व्याप्यसंचारकर्मगुणवद्रव्यत्वात् । तद्विरसविषसंपर्कवशात् पवनप्रकोपो भवतु । कफपित्तयो पङ्गत्वादेव तयोर्विरसविषसंसर्गस्य वक्तुमशक्यत्वात् । तद्वत् अयं कफरोगः, अयं पित्तरोगः इति कथं ज्ञायत इत्य. स्वरसादाह - बाोति। - बाह्यविषग्रस्तवद्वातदृषकाः ॥३७॥ __ सादिना दष्टस्य विषग्रस्तस्य दृष्टत्वात् । तयोः पङ्गत्वादेव तद्विषसंसर्गाभावापे सर्वशरीरव्याप्यपवनवच्छरीरस्य पित्तकफयोः शरीरान्तःपातित्वेन विषसंस्पृष्टपवनसंसर्गवशात् दोषत्रयप्रकोपो भविष्यात । तद्वत्रापि पवनव्याप्यविषरसदष्टपवनसंयोगस्य तयोबिंद्यमानत्वात् अयं पित्तदोषः अयं कफदोष इति वक्तुं शक्यते । तईि रोगमात्रस्य पवनप्रकोपजन्यत्वात् सर्वरोगाणां पवनप्रकोपाधीनत्वात् सर्वे रोगाः पवनजन्या एव स्युः । तस्मात्कफत्तियोः पृथक्तयाऽवच्छेदकतासंभवात् तथा सूत्रस्थाने प्रतिपादितं
विभुत्वादाशुकारित्वादलित्वादन्यकोपनात् ।
स्वातन्त्रयपारतन्त्रयाभ्यां व्याधेः प्राधान्यमादिशेत् ॥ एतद्वचनानुसारेण पवनस्यैव सर्वरोगप्राधान्यं प्रतोतमिति चेत् न । तत्सर्वशरीरव्याप्यत्वेऽपि धातुपोषकं न भवति । मन्दानिलसन्धुक्षणकर्मगुणवद्रव्यत्वात्। अनलमन्दत्वनिवर्तकसन्धुक्षणगुणवद्रव्यस्य धातुपोषकत्वाभावात् । पित्तकलाया एव जठरानलत्वात् पित्तप्रकोपे सति अनलो मन्दो भवति । तेन कफप्रकोप
_IA. B. कोशयोरेतन दृश्यते.
For Private And Personal Use Only