SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थप्रश्न: 171 एव स्यात् । पित्तकफप्रकोपो यावच्छरीरनाशकः सिरामार्गगत.. धातुपोषकपवनमार्गनिरोधनद्रव्यत्वात् । व्याध्यवच्छेदकं शरीरविनाशकत्वं, पित्तकफव्यतिरकेण शरीरनाशकत्वाभावात् । वायोस्तु तत्संसर्गद्वारा रोगहेतुकत्वप्रतिपादनम् । तस्मान्मुख्यत्वेन प्राधान्यं पित्तस्यापि संभवतीत्यर्थः । पवनस्य व्याधेः प्राधान्यप्रतिपादनं सर्वशरीरव्याप्यपवनमन्तरेण रोगकार्यहेतुकत्वं वक्तुं न शक्यत एवेति तात्पर्यम् । ननु पाण्डुशोफविसर्परोगाः तत्तद्भिन्नज्ञानविषयकसामग्रीजन्याः। नत्वेकपदार्थज्ञानग्राहकसामग्री बहुपदार्थवाहिका भवति । बहुपदार्थविषयकज्ञानं नैकपदार्थविषयकज्ञानग्राहकसामग्रीजन्यं, एकपदार्थविषयकज्ञानग्राहकसामग्रीजन्यत्वात् । तथाहि घटेन्द्रियविषयकसामग्रयां सत्यो घटविषयकशानं जायते पटपदार्थविषयकज्ञानं नोदेति । तद्वदेवात्रापि । एकरोगजनकसामग्री कथं रोगक्रयप्रतिपादककार्यजनकसामग्री, बहुकार्यज्ञानग्राहिकाया अदृष्टत्वात् । अन्यथा एकपदार्थग्राहकसामग्रयां सत्यां सर्वपदार्थविषयकज्ञानोप्तत्तिरेव स्यादित्यस्वरसादाह-वातेति । वातपित्तरसविरसद्रव्यसंसर्ग'जातवातगतिरोधनाद्रसासृग्धातुविदूषणात्त्वपालित्यं पाण्डुरोगहे. तुकम् ॥ ३२ ॥ अस्यार्थः-वातपित्तप्रकोपरोगाः रसविरसद्रव्यसंस्कारजाताः, तेन पवनगतिरोधनद्वारा रसामृग्धातुं विदूष्य त्वक्पालित्यं यत्र दृश्यते तत्र पाण्डुरोगोऽस्तीति निदानं ज्ञातव्यम् । स एव पाण्डुरोग इत्यर्थः । ननु वातपित्तप्रकोपसामग्रया वातप्रकोपो जा 1 जातसिरागतपवनातिरोधनात् ----A. & B. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy