________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थप्रश्नः
169
शिरकमलस्थामृतप्रवाहवशात् तद्विरुद्धरसजन्यामपित्तसारसंयोगकार्य सिराणामेव, तद्रोगलक्षणज्ञानज्ञापकत्वात् । यावत्कालं यावत्सिरासंस्पर्शनं तत्तल्लक्षणलक्षितरोगाभावस्य तत्तन्निदानज्ञापकत्वात् । पृष्ठदेशमारभ्य बीजपार्श्वमेदादधःप्रदेशपद्ममारभ्य कचटतपवर्गाणां तत्तद्वीजजनकपवनादेव एतदधिष्ठितपद्मानि पञ्चदशसङ्ख्याकानि पित्तप्रकोपविकारभावकार्यकारकपित्ताधारकपमानि । पित्तप्रकोपसामग्रयां सत्यां तत्तद्वर्णविकारज्ञापकलक्षणलशितानि तत्तान्निदानशापकानि । ओष्ठप्रदेशपर्यन्तं पञ्चदशाधारभूत. पनस्थानाधिष्ठितपित्तं तत्तल्लक्षणानि तत्रैवाविर्भूतानीत्यर्थः ।
इतःपरं कफपाण्डशोभविसामयचिन्हानि प्रकाश्यन्तेश्वासेति।
श्वासखासनासाक्षि'पक्ष्मकर्णकपोलदन्ताति पानसशिरस्तोदनं पाण्डुशोभ विसर्पामयलक्षणम् ॥ ३० ॥
कफप्रदेशे हृदि अमपित्तातिसारस्य त्रिशस्तिरावृतहत्क. मलस्थितत्वात् तत्सिरागतपवनविगत्या श्वासखासौ भवेताम् । अक्षिपश्मकर्णकपोलदन्तानां मलाधिक्यं वेदनातिप्रतीतत्वात् । एत लक्षणाणि कफप्रकोपजन्यामयरूप पाण्डुशोभविसर्पामयलक्षणानि तत्तनिदानेन ज्ञाप्यन्ते।
ननु पवनपित्तकफप्रकोपेन पवनपित्तकफरोगा इति प्रतिपाधते । तश्चिन्तयम् । रसविरसान्नादनं वा शुद्धरसवव्याधि
श्वासकासाक्षि-A & B दन्तातिभिर -A & B ४ विसप्यांमयलक्षणम् -B. AYURVEDA,
For Private And Personal Use Only