________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
168
आयुर्वेदसूत्रे
स्पन्दनारुचिपाण्डुता पित्तपाण्डुशोभलक्ष
णम् । पा. दजानुजङ्घोरुकटिपृष्ठबीजपाङतिव्यथातिसाररूक्षतातिशीतसर्वाङ्गस्पन्दनं पवनशोभपाण्डुलक्षणम् ॥ २९ ॥
वातपाण्डुलक्षणान्युच्यन्ते-पादेति ।
अवर्णादिभूतपादपद्मस्य चतुस्विंशत्सिरा तालवालं तदामपित्तातिसारं शिरःकमलादागतामृतानरोधनादामपित्तातिसारप्र. दर्शनात् शोभपाण्डुविसामयचिह्नतापकं भवति । विरसादनविकारवत्पवनो रसामुग्धातुगतश्चेत् पाण्डुरूपविकारं भजते । स एव पवनो मांसधातुगतश्चेत् श्वयथुर्भवति । स एव धातुगतश्चेत् विसर्पामयो जायते । यस्य पादे विकारो जायते तत्प्रदेशस्थावर्णोच्चारणं स्पष्टोच्चारणवश्राव्यम् । तत्प्रदेशे श्वयथुदर्शनं वा पाण्डुशोभविसर्पामया वा ज्ञातव्याः । __अवर्णस्थानभूतजानुपद्माधारक चतुर्विंशत्सिरावृतजानुपद्मालवालं श्वासोच्छासाभ्यां शिरःकमलस्थामृतोपहरणमार्ग रसविरसजन्यामापत्तसारसंस्कारं तत्सिरामार्गगतपवनविवृत्या पू.
वत्पाण्डुशोभविसामयाः। रसामुग्धातुदूषणात्पाण्डुत्वम् । मांसधातुदूषणाच्छ्यथुदर्शनम् । मेदोधातुदूषणाद्विसर्परोगाः प्रादु. भवन्तीत्यर्थः ।
ये तद्वर्णाधारतत्तद्देशीयपद्मावृतसिरामार्गगतपवनप्रचारणाभावकार्यजनकपाण्डुशोभविसर्पामयाः पूर्ववद्धातून्दूषयन्ति अचां वर्णानामुच्चारणसकलसामग्रयां सत्यां अश्राव्यत्वं, ते पवनप्र. कोपजाता इति ज्ञातुं शक्यत्वादेव पित्तप्रदेशकमलाधार
For Private And Personal Use Only