________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थप्रश्नः
167
कटवम्ललवणरसाः तद्विरसाश्च पित्तप्रकोपकारकाः । तद्विरसाः तजन्यपाण्डुशोफविसर्पकारकाः । तद्विरसादनजन्यामदोषः पाण्डुशीभविसर्परोगकारकः । तद्विकारः आमाशयं प्राप्य सिरारन्ध्रादूर्ध्वमार्गमवगम्य हृद्तः पवनगतिविकारकारकत्वात् तद्वयाप्यसिराविकारकारकत्वात् तद्गतरक्तप्रदूषणात् तद्वयाप्य स्थित स्सन् पाण्डुरूप लभते । रक्तविकारे सति शोभो भवति । मांसविकारकारकत्वात् विसर्पो भवति । तद्गताममेव पित्तं भवति । तद्रोगस्थानस्थितत्वात् विकारप्रदो भवति । तस्य विषरूपत्वात् धातवः प्रदुष्यन्ते । तजन्यलक्षणानि तत्रतत्र प्रकाश्यन्ते । तदामरूपत्वात्पित्तं हृदयस्थितामपित्तसारं सिरारन्ध्रभागमापूर्य पक्काशये सावितत्वात् तत्पकसारस्यैव मूत्रत्वात् हृत्कमलं प्रविश्य तत्रैव स्थितं हृदि स्पन्दनं करोति । द्विसिरावृतपद्माधारजिह्वाप्रवेशनात्पित्तस्य तत्सिरारन्ध्रप्रवेशनात् जिह्वायामरुचिदृश्यते । हृदयस्थितामपित्तसारं सिरारन्ध्रभागमापूर्य पक्काशये नावित. त्वात् तत्पक्कसारस्यैव मूत्रत्वात् पाचकपित्ताभावो भासते । तद्धा. तुप्रवेशनमपि तदात्मत्वेन तत्पूर्ववर्ण विहाय पीतवर्ण भासते। तत्पञ्चाशत्सिरारन्ध्रधमनी सम्पूर्य अक्षिपद्मं प्रविशति । तत्र पीतत्वं प्रती. यते। शतसिरारन्ध्रधमनीषु पित्तसारप्रवेशनात् तच्छाखाङ्गुलीषु कष्णारुणकनकपीतदत्वेन तत्पूर्ववर्णं विहाय पीतवर्ण भासते । तत्रस्थरतं. बहुवर्ण भासते । नाभ्यावृत्तचकाधारकुण्डल्याधारभू. तानीलात्मकनाभ्यावृत्तपद्महृद्तामपित्तसारः नाभ्यावृत्तचक्राधारत्रिशत्सिराभ्यन्तरमार्गेषु प्रविशन् तावद्विकारान् जनयतीत्याह--भ्रमेति ।
भ्रमवमिपिपासादितृष्णामूर्छान्तर्विदाहाङ्ग--
For Private And Personal Use Only