________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
166
आयुर्वेदसूत्रे
क्लिमिजनकप्लीहोदरामयस्तथा ॥ २७ ॥
अस्यार्थः-- क्लिमयस्तु विरसजातामयजन्याः। तेभ्यो जातप्लीहोदरामयास्सम्भवन्ति, क्लिमेस्सारजन्यमांसग्रन्थिरूपत्वात् । तस्य जठरानलकार्यस्य प्रयोजकत्वात् तद्वदेव दोषप्रयुक्तो भवति । तस्मादष्टविधोदरामयस्लङ्गच्छत इत्यर्थः ।
पाण्डुशोफविसर्परोगाणां प्रतिपादनस्यावसरत्वात् उदरामयजनकासरामार्गगतपवनगत्या उदरामयकार्यधातुत्रयदोषैकजन्यत्वस्य एतेषामपि समानत्वात् उदरामयनिरूपणानन्तरमेतान्नरूपणस्य प्रस्तुतत्वादाह-कट्विति । __ कट्वम्ललवणरसवदव्यादनजातमल मार्गावरोधनात् तत्सिरारन्ध्रमार्गगतोर्ध्वहृत्परिपूरणपवनप्रकोपनात् पाण्डुशोफविसर्परुक्प्रदो भवति ॥ २८
1A. B. कोशयोरेतन दृश्यते. ___कर्फ करोति' इत्यन्त सूत्र.दनन्तरं कट्वाललवणादिसूत्रात् प्राक् अधो लिखित: अधिकपाठ: A. B. कोशेषु दृश्यते
"त्रिदोषप्रकोपजनकमन्दानलसन्धुक्षणकारकपवनयोगजन्यजठरानलप्रवर्धक. सिरामार्गपरितानिलानलदोषजन्यरोगहारकः । वनारवह्निपरा विश्वा वधूवरा वर्णाङ्गो वर्षाभूवर्धमानः । तत्तक्रियोपकारककाथकल्कतलघृतलेह्यादयो निवर्तका: ! पवनप्रकोपकार्योदरामयनिवर्तकाः । निवर्यो राग: । पवनपूरण कार्यदुस्साध्योदामयविनाशकम् । पर्जन्या पांशपर्णी तारा नेता वीता धावनी सुवृता । मूर्तिका तुद्रिका कार्मुकः किरातकः । कटुकः । कशेरुकः । क्रोष्ठुकः । त्रिकण्टकः । बङ्घरकः । कुरण्टकः । कशेरुकाः । सरसासनांससरित्प्रभवति"| A.
वजीदधिवाहिनरा विश्ववधूधरवर्णा वर्षाभूवर्धमान: ........ घृतपङ्कादयः । इति पाठभेद:-B.
2 जतामलमार्ग A.-B.
For Private And Personal Use Only