________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थप्रश्न:
165
एवं प्रकारेण षड्रसानां रोगप्रकोपहेतुकत्वं प्रतिपादितम् । न ते रोगहारकाः । तथा सति तद्विरसद्रव्यादीनां रोगप्रतिपादकत्वं वक्तुं शक्यत्वादिति न वाच्यं, मधुररसस्य बहुगुणवद्रव्य. त्वेन तच्छलेष्मलमिति वक्तुं शक्यत्वात् “मधुरं श्लेष्मलं प्रायः" इति वचनं नाशङ्कनीयम् । तद्विरसद्रव्यं सकलदोषकारकं षडूसानामपि तथा वक्तुं शक्यत्वादित्यर्थः । एवं पवनकफोदरामयस्य सूत्रप्रतिपादितार्थः पूर्वोक्तप्रकारेण योजनीयः। एवं पित्तकफोदरामयस्यापि एतावदर्थो योजनीयः । एवमाकारेण सप्तसङ्ख्योदरामया जाताः । तदुपरि सूत्रत्रयं व्याचष्टे-कफेति ।
कफपित्तप्रकोपजनकद्वित्रिरसजातानुसरिततत्तल्लक्षणलक्षितकफपित्तोदरामयो ज्ञेयः । कफपित्तोदरामयं द्वित्रिरसजातानुसरितोभयलक्षणज्ञानजन्यकफपित्तामयं विद्यात् । रसासृङ्गासमेदोविकारजनकद्वित्रिरसानुसरिततत्तल्लक्षणज्ञानगोचरपवनपित्तकफोदरामयो दुस्साध्यः ॥ २६ ।।
ननु दोषत्रयजनकरसविरसादनहेतुकोदरामयसद्भावे किं मानं? तजनकहेतोरेवाभावात् । तत्रैकदोषजन्यास्त्रयः । द्वन्द्वजातास्त्रयः । त्रिदोषजन्य एकः। एवं सप्तविध उदरामयः । इतःपरमएसङ्ख्यापूरणार्थ उदरामये तद्भिन्नभूतदोषस्यैवाभावात् वातादीनां प्रयोजकत्वस्य तद्भेदोपाधिवशात् सप्तविधप्रकारस्य पूर्वमेव प्रतिपादितत्वात् तदितरोदरामयस्य हेत्वभावेन ज्ञातुमशक्यस्वात् कारणाभावे कार्यानुदयादित्याशङ्कय समाधत्ते-- क्लिमीति ।
For Private And Personal Use Only