________________
Shri Mahavir Jain Aradhana Kendra
152
www.kobatirth.org
आयुर्वेदसूत्र
(C
Acharya Shri Kailassagarsuri Gyanmandir
जङ्घापद्मपोषकामृतप्रवाह परिणाम योगवशाच्च
लति ॥ १३ ॥
जङ्घाप्रदेशस्थितपञ्चदशदळपद्मं येन वशादागतामृतप्रवाहात् तत्पद्मं पोषयत् तच्चलनात्मककर्मोपकारकं भवतीत्यर्थः ।
ननु ईश्वरसद्भावे किं मानं ? स्वहितफलप्रापकविषये चलनात्मक कर्मप्रवृत्तिः | अहितफलनिवृत्तिविषये चलनात्मककर्मप्रवृत्तिश्च । तदुभयमपि शुद्धरसाहारजन्यं धातुदाकरणप्रयोजकम् । सकलकर्मविषयकचलनात्मकक्रिया पवनेन सिरागता - मृतप्रवाहप्रेरणावशात् चलति । पूर्वोक्तरीत्या ईश्वरेण विनापि शरीराङ्गचलनक्रियां कर्तुं कर्मकरणेनैव सिद्धत्वात् --
कर्मणैव हि संसिद्धिमास्थिता जनकादयः " इति । तस्मादीश्वरो न सिद्ध्यतीत्यस्वरसादाह-लवणेति । लवणरसजन्यपवनयोगरस प्रवर्तकक्लेशकर्मविपाकाशयापरामृष्टः पुरुषविशेष ईश्वरः ॥ १४ ॥
लवणरसजन्यः तामसगुणविशिष्ट ईश्वर एकः शरीरे स्थितः । स ईश्वरः नित्योऽपि तामसगुणस्य अनित्यत्वात् तद्गुणविशिष्टत्वात् तज्जन्य इत्युक्तः । पवनजनकस्वादुरसवद्द्रव्यादनजन्य सात्विकगुणविशिष्ट ईश्वरः तद्गुणविशिष्टं शरीरे स्थितः अजः । क्लेशगुणविपाकाशय अजः । तस्माद परामृष्टः आमयरहितः ईश्वरः पुरुषविशेषः । तावुभावपि शरीरस्थिती । तयोरेकः अजरस्सर्वस्वतन्त्रोप सर्वशरीरं व्याप्य सर्वकर्मोपकारकः । स्वान1 विशेषः जीवः A & B.
For Private And Personal Use Only